________________
३१४
कातन्त्रव्याकरणम्
श्राद्धादाववस्थानाद् व्रतशब्दस्य सन्निधानम्
गमकत्वान्नञ्समासः । णिनिमुत्पाद्य पश्चान्नञ्समास इत्येके। अश्राद्धं न भुङ्क्ते तदा व्रतलोपः स्यात् । यथा स्नानं मया कर्तव्यमिति नियमे सति अस्नाने व्रतभङ्ग इत्याह सतीत्यादि । न हि शीलमन्तरेण तात्पर्यं युज्यते। नैतच्चोद्यमित्याह-तत्रान्यदित्यादि । यथा आतुरस्योषधपाने शीलमन्तरेणापि तात्पर्यमिति भावः ।। १०८३।
[वि० प० ]
व्रता०। अर्थित्वादिति। अर्थित्वाद् यथेष्टं सामान्येन भोजने प्रवृत्तौ प्राप्तायां सत्याम् अश्राद्धभोजनं शास्त्रविहितमुपलभमानस्य श्राद्धाद् विनिवृत्य विशेषे हि श्राद्धे प्रवृत्तिनियमो व्रतमुच्यते। नियमश्चात्र द्विविधः संभवति - अश्राद्धं भुङ्क्त एव । अश्राद्धमेव भुङ्क्त इति वा । तत्रार्थनियमे यदैवाश्राद्धं न भुङ्क्ते तदैव व्रतलोपः स्यात् । न खल्वेतत् शक्यम् , यदश्राद्धं भुञ्जानेन सर्वदा भोक्तव्यमेव, भोजनस्य बुभुक्षाधीनत्वाद् अभोजनलक्षणस्यापि सम्भवाद् अतो द्वितीयं नियममाह - सतीत्यादि । आभीक्ष्ण्ये दर्शयति-क्षीरेत्यादि । तत्रापि वचनात् समासान्तसमीपयोर्वेति णत्वम् । ननु चाभीक्ष्ण्यं तात्पर्यम्, तत् पुनस्ताच्छील्यमेव पूर्वेणैव णिनिः सिद्ध:, किमनेनेत्याह- तत्रान्यदिति । यथौषधिपाने रोगिणः शीलमन्तरेण तात्पर्यम्। तथेदमपीति । किञ्च जात्यर्थं चेदमिति न दुष्यति ।। १०८३ ।
-
[क० च० ]
व्रता। आसेवा तात्पर्यमित्यर्थः । उशीनरा उशीनरदेशोद्भवा इत्यर्थः । सौवीरं काञ्जीति यस्य ख्यातिः, बदररस इत्यन्ये । अर्थित्वाद् याचकत्वादित्यर्थः ||१०८३।
[समीक्षा]
'अश्राद्धभोजी ब्राह्मण:, क्षीरपायिण उशीनराः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में ‘णिनि' प्रत्यय का विधान किया गया है। पाणिनि के दो सूत्र हैं"व्रते, बहुलमाभीक्ष्ण्ये" (अ०३।२।८०,८१) । पाणिनीय सूत्रकृत गौरव को छोड़कर उभयत्र प्राय: समानता ही है ।
[रूपसिद्धि]
+
१. अश्राद्ध भोजी । अश्राद्ध भुज् णिनि सि । अश्राद्धं भुङ्क्ते 'अश्राद्ध' शब्द के उपपद में रहने पर 'भुज पालनाभ्यवहारयोः' (६ । १४) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, "नामिनश्चोपधाया लघोः " (३।५।२) से धातुघटित उपधा उकार को गुण, 'अश्राद्धभोजिन् ' की लिङ्गसंज्ञा, सि-प्रत्यय, "नान्तस्य चोपधायाः” (२।२।१६ ) से न् की उपधा इकार को दीर्घ तथा 'सि-न् ' का लोप । २. अलवणभोजी। अलवण भुज् + णिनि सि । अलवणं भुङ्क्ते । 'अलवण' शब्द के उपपद में रहने पर 'भुज् ' धातु से 'णिनि' प्रत्यय आदि कार्य पूर्ववत् ।
+
+
+