________________
चातुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः ३११ शीलमस्य। 'धर्म + अव' के उपपद में रहने पर ‘भाष व्यक्तायां वाचि' (१।४३४) धातु के. "णिनि' प्रत्यय आदि कार्य पूर्ववत् ।। १०८१।
१०८२. कर्तर्युपमाने [४।३।७७] [सूत्रार्थ कर्तृवाचक उपमान नामपद के उपपद में रहने पर धातु से ‘णिनि' प्रत्यय होता है । १०८२। [दु० वृ०]
उपमानेऽथें नाम्नि कर्तृवाचिन्युपपदे धातोर्णिनिर्भवति । जात्यर्थमताच्छील्याभीक्ष्ण्यार्थ च। उष्ट्र इव क्रोशति उष्ट्रकोशी। ध्वाक्ष इव रौति ध्वाङ्क्षरावी। कर्तरीति किम्? शालीनिव कोद्रवान् भुङ्क्ते। उपमान इति किम्? उष्ट्र: क्रोशति। उपपदवाच्यः कर्ता णिन्यर्थस्य कर्तुरुपमानं न्याय्यम्। उष्ट्रस्येव क्रोशनमस्येति वाक्येऽन्तरङ्गसम्बन्धेऽपि गौणत्वमिति ।। १०८२।
[दु० टी०] ___कर्त०। उपपदवाच्य इत्यादि। उपमानोपमेयसम्बन्धो णिनिना द्योत्यते इति वृत्ताविवशब्दो न युज्यते । ननु प्रत्यासत्तेरन्तरङ्गत्वाच्च धात्वर्थस्योपमेयत्वं धातोरुपमेयादिति। कर्ता हि नाम व्यापारवान् भवति कथमीदृशेनोपमानेन ध्वनिरूपस्य धात्वर्थस्योपमेयत्वम्, न च कर्तृसम्बन्धिनोः क्रोशनयोरेवोपमानोपमेयत्वं स्यात्, कर्तर्युपमान इति वचनं विरुध्येत। अतोऽत्र उष्ट्र इव क्रोशति उष्ट्रक्रोशनमस्येति वाक्यार्थो भिद्यते न वस्त्वर्थस्तेनोपमानोपमेयक्रोशनसम्बन्धात् तत्सम्बन्धिनोरपि कत्रोरुपमानोपमेयत्वं शक्यते एवानुमानवशात् तदिति, नैवं शक्यम् ‘गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः' (का० परि० २) इति भावः।। १०८२।
[वि० प०]
कर्तरि०। ननूपपदवाच्यः कर्ता उपमानो भवन् धात्वर्थस्य णिन्यर्थस्य वा स्यात्, न तावद् धात्वर्थस्य । क्रियाश्रयो हि कर्ता, स कथं क्रियाया एवोपमानं स्यात्। तन्निबन्धनस्य सदृशभावस्यैवाभावात्। अतो णिन्यर्थस्य कर्तुरुपमानं युक्तमित्याहउपपदेत्यादि। ननु कथमिदं न्याय्यम् अत्रापि सादृश्याभावात्। न हि उष्ट्रस्योपपदवाच्यस्य णिन्यर्थेन देवदत्तादिना का सादृश्यमस्ति। तस्मात् प्रत्यासत्तेरन्तरङ्गत्वाच्च धात्वर्थस्यैवोपमेयत्वम्, क्रियावत: कर्तुपमानत्वमिति। अत्रापि ध्वनिरूपं धात्वर्थं प्रति न युक्तमिति चेद्, एवमेतदुपमानमपि धात्वर्थ एवास्तु उष्ट्रस्यैव क्रोशनमस्येति? तदयुक्तम्, एवं सति ‘कर्तर्युपमाने' इति वचनमनर्थकं स्यात्, उष्ट्रस्य सम्बन्धित्वेनोपमानकर्तृत्वस्यानुपपत्तेः। अथेदमेव वाक्यम् - उष्ट्र इव क्रोशतीत्येवंकारं भिद्यते। अर्थाद् उपमानोपमेयभूतक्रोशनसम्बन्धात् तत्सम्बन्धिनोः कोरुपमानोपमेयभाव उच्यते? सत्यम्, एवं सत्यनुमीयमानत्वात् कर्तृत्वं गौणं स्यादित्याह- उष्ट्रस्येति । यद्यपीदमन्तरङ्गसम्बन्धं