________________
३१२
कातन्त्रव्याकरणम्
वाक्यं तथाप्येतन्नाश्रीयते । यतोऽस्मिन् वाक्ये कर्तृत्वमनुमेयत्वाद् गौणम् । न च मुख्यकर्तृत्वे सति गौणकर्तृपरं सूत्रं युज्यते वक्तुमित्यर्थः। अन्ये तु यथाक्षरं व्याचक्षाणा अस्यैव वाक्यस्य अन्तरङ्गसम्बन्धस्याप्येतद्वचनार्थानुपपत्त्या गौणत्वमिति समर्थयन्ति, षष्ठीसप्तम्योरर्थं प्रत्यभेदादिति ।। १०८२।
[क० च०]
कर्तरि०। ननु किमर्थमिदं पूर्वेणैव सिध्यतीत्याह-जात्यर्थमिति । कोद्रवानिति । शस्यविशेषानित्यर्थः । कोन इति यस्य ख्याति: । उपपदवाच्य इति । क्रियाद्वारेणैव सादृश्यात् कर्तरुपमानोपमेयभाव इति अन्तरङ्गसम्बन्धेऽपीति उपमानोपमेयभावस्य साक्षात् सम्बन्धादिति भावः । गौणत्वं कर्तुरिति शेष: । पञ्जिका-क्रियाश्रय इति । अयमर्थःक्रिया कर्तृसाध्या, तां प्रति कथं कर्तुरुपमानत्वम्, कार्यकारणभावविलोपापत्ते: तन्निबन्धनस्य कर्तृनिबन्धनस्येत्यर्थः । न हि उष्ट्रस्योपपदवाच्यस्येति द्रव्यस्य द्रव्यान्तरेण सहोपमानं विना क्रियया गुणेन वा सम्भवतीति भावः । प्रत्यासत्तेरिति । धातोः परस्य णिनेर्विधानात् क्रियैव प्रत्यासन्ना तर्हि 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' (का० वृ० १।२।५६) इति कर्ताऽपि प्रत्यासनः इत्याह- अन्तरङ्गत्वादिति । क्रियाद्वारेणैव कर्ता यतः प्रतीयते क्रियावत: इति णिन्यर्थस्य कर्तुरित्यर्थः ।
सिद्धान्तमाह- अत्रापीति। ध्वनिरूपं क्रोशनमित्यर्थः। युक्तम् इत्युक्तोऽत्र हेतुः। अथेदमिति। उष्ट्रस्येव क्रोशनमस्येत्येवं वाक्यम् , उष्ट्र इव क्रोशतीति। एवंकारम् एवं कृत्वा भिद्यते, अपि तु न भेदः। तथाप्यनयोर्भेदः, किं कर्तृत्वेनोपमानत्वेन वा? कर्तृत्वेन चेत्, क्रियाश्रयः कर्ता उष्ट्रस्येव क्रोशनमस्येति। अत्रापि कर्तृत्वमस्ति। अथ उष्ट्रस्येव क्रोशनमस्येति वाक्यक्रिययोरुपमानोपमेयभावः। उष्ट्र इव क्रोशतीति वाक्ये कों:, अत उपमानोपमेयत्वेन भेद इति वक्तव्यमित्याह-अर्थादिति। एतेनोष्टस्येव क्रोशनमस्येत्यत्र कोरुपमानोपमेयभावः सिद्धः। उष्ट्र इव क्रोशतीत्यत्रापि इत्थमेव कोरुपमानोपमेयभावः। अनुमीयमानत्वादिति। क्रियाश्रयः कर्तेत्यनेन प्रकारेणानुमीयमानं कर्तृत्वमित्यर्थः।
अन्ये त्विति। अन्ये यथाक्षरं यथाश्रुतं व्याचक्षाणा:। अस्मन्मते कर्तुर्गौणत्वम्, तेषां मते वाक्यस्येति यथाश्रुतव्याख्या। अस्योष्ट्रस्येव क्रोशनमस्येति वाक्यस्यान्तरङ्गसम्बन्धस्यापि गौणत्वम् इति हेतोः समर्थयन्ति सूत्रमर्थयन्ति। अन्यथा योजयन्तीति यावत्। तथाहि 'उपमाने कर्तरि' इत्यस्य कोऽर्थः उपमानस्य कर्तुरिति। अस्य मते उपमानस्य क्रोशनस्य कर्तरि उष्ट्रादावुपपदे उष्ट्रस्येव क्रोशनमस्येति वाक्ये एव णिनिः। ननु उपमान इति सप्तम्यन्तत्वे सति कथमुपमानस्य षष्ठ्यन्तरार्थः क्रियते इत्याहषष्ठीति। षष्ठीसप्तम्योरित्यादि। अस्य मतेऽपि कर्तुर्गौणत्वमत्र विशेषाभावात्। षष्ठीसप्तम्योरर्थ प्रति भेदो नास्तीति व्याख्यानमनादृत्यानेनोष्ट्र इव क्रोशतीति दर्शितम्। तथोपमानस्य