________________
३१०
कातन्त्रव्याकरणम्
गुणा इति। खलुशब्दो यस्मादर्थे। यस्माद् गुणा उत्पत्तिविनाशधर्मिणः शीतोष्णादयोऽर्थे गवादौ सत्यपि उत्पद्यन्ते तेन हेतुनेति। परं सुगमम्। नोत्पद्यते न च विनश्यतीति । एतेनोत्पत्तिविनाशाभ्यां प्राग् भवतीति कृत इत्यर्थः। एतेन वा किं प्रतिपादितं भवतीति केवलमिति। किन्त्वित्यर्थः। अयमर्थः- नित्यत्वेन स्थितं गोत्वादिकं व्यक्तरुत्पत्तिलक्षण एव तामवलम्ब्य विनाशपर्यन्तं तिष्ठतीति। योनिश्चेति। विशुद्धमातृपितृकत्वमित्यर्थः। तदहर्जातस्येति। ननु "स्यातां यदि पदे द्वे तु' (२।५।९) इत्यत्र बहुग्रहणाद् बहुव्रीहिरेव, न तत्पुरुषादिकम्। तत् कथमत्र बहुपदे तत्पुरुषः ? न च वक्तव्यम् - तच्च तदहश्चेति कर्मधारये पश्चात् तत्पुरुषः "राजन्नहन् सखि" (२।६।४१-१) इति राजादित्वादत् स्यात्? सत्यम् , बहुव्रीहिरव। जननं जातं तस्मिन्नहनि जातं जन्म यस्येति। न हीति। न च वक्तव्यम् असर्वलिङ्गभाक्तत्वाज्जातित्वम्। कुमार:, कुमारी, कुमारम् इति सर्वलिङ्गभाक्तत्वादिति कुमारवादीत्यपप्रयोग एवेति तदा कुमारभार्येत्यपि तथा जातेरिति पुंवत्प्रतिषेधादिति स्थितम्।। १०८१।
[समीक्षा
ताच्छील्य अर्थ के गम्यमान होने पर 'उष्णभोजी, शीतभोजी, धर्मावभाषी' आदि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने ‘णिनि' प्रत्यय का विधान किया है । पाणिनि का सूत्र है- “सुप्यजातो णिनिस्ताच्छील्ये' (अ०३।२।७८)। पाणिनि ने जिसे सुबन्त पद कहा है, कातन्त्रकार ने उसकी 'नाम' संज्ञा की है- ‘स्याद्यन्तं च पदं नाम'। अत: 'सुबन्त-नाम' शब्दों के भेद को छोड़कर अन्य तो उभयत्र समानता ही है ।
[विशेष वचन १. सा च बहुप्रकारा लोकतः एव प्रसिद्धा (दु० टी०)। २. गोत्वादिलक्षणा जातिरुक्ता (वि० प०)। ३. गोत्रचरणम् अत्रिलिङ्गतैव जाति: (वि० प०)। ४. फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम् (क० च०)। ५. णिनेरिकारः सुखार्थ: (क० च०)। ६. कुमारत्वं तु करचरणादिसंस्थानव्यङ्गयत्वम् (क० च०)। ७. षट्कर्मशालित्वं ब्राह्मणत्वम् (क० च०)। ८. एकव्यक्तावाख्याता गोत्वादिलक्षणा जातिरशेषव्यक्तिषु निर्लाह्या (क० च०)। [रूपसिद्धि]
१. उष्णभोजी। उष्ण + भज् + णिनि + सि । उष्णं भोक्तं शीलमस्य । 'उष्ण' शब्द के उपपद में रहने पर 'भुज पालनाभ्यवहारयोः' (६।१४) धातु से प्रकृत सूत्र द्वारा 'णिनि' प्रत्यय, इज्वद्भाव, गुण, लिङ्गसंज्ञा, सि-प्रत्यय, दीर्घ तथा 'न् - सि' का लोप ।
२. धर्मावभाषी । धर्म - अव + भाष् + णिनि + सि । धर्ममवभाषितुं