________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
३०९ आकारविशेषव्यङ्ग्ये भवतः इत्यर्थः। अन्वितयोरित्यादि। द्रव्यान्वितयोरपीत्यर्थः। आश्रयमात्रेति । आश्रयमात्रस्य केवलद्रव्यस्योपलब्धौ तयोरुपलब्धिः। न तु द्रव्यस्य गवादेर्विषाणादिकसंस्थानापेक्षयोपलब्धिरिति भावः। कुमारत्वं तु करचरणादिसंस्थानव्यङ्ग्यत्वमित्यस्ति भेदः । तदधिष्ठानस्येति । तत्र ब्राह्मणेऽधिष्ठानं यस्य संस्थानस्येत्यर्थः । सर्वभागिति उपपदे सर्वपदं रूपपरम् । विध्यर्थं चेदमिति । न हि सिद्धे सत्यारम्भोऽयं येन नियमाय भविष्यति विधौ सति स्वप्रवृत्तिरेवास्य फलं कथं लक्षणान्तरेण प्राप्तस्य जातित्वस्य बाधा न कर्तुं शक्यते इति भाव: । यद्येवमिति। अस्मन्मते पूर्वलक्षणसापेक्षमिदं लक्षणमित्यभिप्रेतम् । इदानीं यदि निरपेक्षत्वमुक्तं तदाऽन्यत्र दूषणं स्याद् इत्यभिप्रायेणोक्तम् - यद्येवमिति । उपदेशशब्दार्थमप्रतिपन्नः सन् पक्षमाह-नन्विति। न ह्यनपदिष्ट इति उपदेशरहितो जन इत्यर्थः । एकस्यामित्यादि । एतेन षट्कर्मशालित्वं ब्राह्मणत्वमित्यत्र सङ्केतोपदेश इति ध्वनितम् । एतदादिसङ्केतव्यङ्ग्या जातिरित्यर्थः । तदर्थस्येति । तस्य देवदत्तादेरर्थस्य भेदाभावादित्यर्थः। व्यक्त्यन्तरान्वयित्वे सति तदर्थस्य भेदः सम्भवतीति भावः । स्वरूपसामान्यमेवेति । यथा चन्द्रत्वं सूर्यत्वमित्यादि । सादृश्यसामान्यमिति। अस्येवार्थमाह- येनेति । येन स्वभावेन घटत्वपटत्वादिना भावा: सत्तायोगिनो घटपटादयः शुक्लादिगुणेन विसदृशा अपि सदृशा भवन्ति, घटपटादीनां विसदृशरूपेष्वपि सम्भवात् तद्घटत्वपटत्वादिकं जातिरित्यर्थः ।
नानावस्थमिति। नाना अवस्था यस्य एकार्थस्य सर्वस्येति सर्वलक्षणस्य विशेषणमित्यर्थः। पिण्डान्तर इति। कृष्णेऽपीत्येवेत्यर्थः। ननु लिङ्गानां च न सर्वभागित्यनेनैव गवादीनां जातित्वं सिद्धम् , गुणक्रिययोस्तु न भविष्यति सर्वलिङ्गभाक्तत्वात् । तथा सकृदाख्यातनिर्ग्राह्येत्यनेन च देवदत्तादेर्यदृच्छाशब्दस्य न भविष्यति, किमाकृतिग्रहणा जातिरित्यनेन ? सत्यम् । कुमारत्वतटत्वादीनां सर्वलिङ्गभाक्तत्वाज्जातित्वं न भविष्यति। अथ सकृदाख्यातनिर्याोति स्वतन्त्रलक्षणमास्ताम् , तेनैव ब्राह्मणत्वादेर्जातित्वं भविष्यति किं द्वितीयलक्षणेन ? सत्यम् , तदा आकृतिग्रहणा जातिरित्यनेन देवदत्तादेरपि जातित्वं स्यात् , स्थितौ तु न स्यात् । आकृतिग्रहणा जातिरित्यस्यापि सकृदाख्यातनिर्ग्राह्येति विशेषणत्वात् ।
ननु एकव्यक्तावाख्याता गोत्वादिलक्षणा जातिरशेषव्यक्तिषु नि ह्येति कुतो निश्चितम्। प्रतिव्यक्तिषु भिन्नोपदेशस्येति कथं न स्यादित्याह- उपपदस्येत्यादि। तृतीयमिति। सकृदाख्यातनिर्ग्राह्येति न स्वतन्त्रलक्षणमेवोक्तम्। अतस्तृतीयमेवोक्तम्। तदाश्रयस्येति स एव गर्गादिरेवाश्रयो यस्य संस्थानस्येति विग्रहः। तदा कठबढचादिजातिरिति। अयमपि सर्वलिङ्गभाग् भवतीत्यर्थः। गुणानामिति। उत्पत्तिप्रभृत्याविनाशमनुगच्छतां गवादेः शुक्लादीनां गुणानामित्यर्थः। उष्णशीतबाल्यानां तु उत्पत्तिप्रभृत्याविनाशमनुगमनाभावादेव निरास:, न तदर्थं गुणैरिति विशेषणम् । तर्हि बहुवचनं किमर्थमित्याह-अनेक इति । आर्थो घटपटादिः ।