________________
कातन्त्रव्याकरणम्
यस्मात् कर्मोपपदे तृनो बाधने सूत्रस्य सफलत्वम् ? सत्यम् । दृशिग्रहणस्य प्रयोगानुसारित्वात् तदा कर्मोपपदे तृन् न भवतीति वाच्यम् स्थितोऽप्यवश्यं चैतदङ्गीकर्तव्यम् कथमन्यथा उत्प्रतिभ्यामाङः सतें: कर्तरि ताच्छील्ये तृन् स्यात् । तथा ब्रह्मवादीत्यादावपि तस्मात् सूत्रबलादेव व्याप्तिर्गम्यते नाम्नीति किमित्युपसर्गस्य नामत्वं डप्रत्ययविधौ ज्ञापितमेव ।
३०८
ननु नाम्नीत्यस्याभावे त्यदादीनामनन्तरत्वादेवानुवर्तनं युक्तम्, ततश्च सोदाहरणमपि न सिध्यति इदं वा कथं प्रत्युदाहरणम् ? सत्यम् अजाताविति प्रतिषेधात् त्यदादीनां नानुवृत्तिः, न हि त्यदादीनां मध्ये वक्ष्यमाणलक्षणेन जातित्वं घटते, येन तत्र व्यावृत्तिः । अथ त्यदादेः पूर्ववस्तुपरामर्शित्वाद् यदा जातिवाचकं गवादिकं परामृश्यते तदा व्यावृत्तिरिति । अजातिविषयेषु वर्तमानेषु भविष्यति, जातिविषयेषु तु वर्तमानेषु न भवति ? सत्यम्, अजातावित्यस्य पदस्य सामान्यस्योपपदत्वकल्पने सामानाधिकरण्येनान्वयः, त्यदादीनामुपपदत्वेऽपि अजातावित्यस्य वैयधिकरण्येनान्वयः । न हि सामानाधिकरण्यसम्भवे वैयधिकरण्यं कल्प्यते इति न त्यदाद्यनुवृत्तिः, किञ्च त्यदाद्यनुवर्तने तद्विशेषणस्यापि उपमानस्यानुवृत्तिः, ततश्च तमिव भाषितुं शीलमस्येति सापेक्षत्वात् कथं प्रत्ययः, स्थितौ तु विशेष्यनिवृत्तौ विशेषणस्यापि निवृत्तिरिष्टा, उपमानोपमेयभावे आरोपः, ताच्छील्यं च स्वभावः। स तत्र कथं घटते इति नोपमानानुवृत्तिरिति कश्चित् । तन्न, पण्डितस्येव भाषितुं शीलमस्येति घटनात् । णिनेरिकारः सुखार्थः ।
ननु प्रतियोगिज्ञानाधीनमेवाभावज्ञानम् यदि प्रतियोगी ज्ञायते तदाऽभावो ज्ञातव्यः इति प्रतियोगिनं ज्ञापयितुमाह- आकृतीत्यादि । चरणैरित्यादि । गोत्रं जातिश्चरणं च जातिरित्यर्थः । प्रागुत्पत्तिरिति । युगपद् गुणैर्विशिष्टस्य सत्त्वस्य गवादिद्रव्यस्योत्पत्तिविनाशाभ्यां प्राग् यद्धर्मान्तरमवतिष्ठते सा जाति: । अयमर्थः पूर्वं यदेव धर्मान्तरं गोत्वादिर्गवादिव्यक्तेरुत्पत्तिक्षणप्रभृतिविनाशपर्यन्तं गवादिद्रव्यमवलम्ब्यावतिष्ठते, न च व्यक्तौ तस्यां तां विहायावतिष्ठते, तस्या विनाशे तु अन्यस्यां विद्यते एव, अत एव पञ्जिकाकारः केवलम् उत्पत्तेः प्रभृत्याविनाशमनुगच्छतीति प्राह- उत्पत्तेः प्रागित्यनेन नित्यत्वलाभ:, विनाशात् प्रागित्यनेन विनाशपर्यन्तं स्थितिता प्रतिपादिता, शीतोष्णादिकं तु नोत्पत्तिप्रभृत्याविनाशमनुगच्छतीति तत्र व्यावृत्तिः । गुणैरित्यनेन गुणविशिष्टस्य गवादेरेव धर्मान्तरस्य जातित्वम्, न तु गवादीनां शुक्लादेर्गुणस्य गुणविशेषणानौचित्यात्। युगपदिति । सम्भवपरतयोक्तं बहुवचनमित्यपि तथा ।
संस्थानमिति पञ्जी । शरीरमित्यर्थः । तेनैव गोत्वादिस्वरूपा गृह्यते सा जातिरित्यर्थः। शृङ्गाद्यवयवदर्शनादेव गोत्वादिज्ञानोत्पत्तेः । संस्थानव्यङ्ग्यत्वादिति । संस्थानम् आकृति:, व्यज्यतेऽनेनेति व्यङ्ग्यम् । संस्थानमेव व्यङ्ग्यव्यञ्जकं यस्या इत्याकृतिग्रहणत्वादित्यर्थः । प्रत्युक्तेति पञ्जी खण्डितेत्यर्थः । गुणक्रिययोरिति । सम्बन्धे षष्ठीयम्। न हि गुणक्रिये
,
,
,
·