________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः ३०७ तथाहि कठशब्दोऽप्यध्ययनविशेषमाचक्षाणो यदा तदध्ययनसम्बन्धात् तदध्येतृषु पुरुषेषु वर्तते तदाऽयं चरणशब्द इति क्रियैवास्य प्रवृत्तिनिमित्तम् अतो जातित्वप्रसिद्धये चरणैः सहेत्युक्तम् । मतान्तरमाह- प्रागुत्पत्तिविनाशाभ्यामिति । गुणानामजात्यात्मकत्वं दर्शयितुं गुणैरिति विशेषणे तृतीयामाह । अनेकगुणाश्रयश्चार्थो भवतीति बहुवचनम् । अयमर्थः- गुणा: खलूपजननापायधर्माणः सत्येव अर्थे उत्पद्यन्ते विपद्यन्ते च, तेनोत्पत्तिविपत्तिधर्मकैरनेकैर्गुणैर्युगपद् विशिष्टो गवादिरर्थे भवति । तस्य चैवंविधस्यार्थस्य यद्रूपान्तरमुत्पत्तिविनाशाभ्यां प्राङ् नोत्पद्यते, न च विनश्यति केवलमुत्पत्तेः प्रभृत्याविनाशमनुगच्छति तत्सामान्यात्मकं गोत्वादिलक्षणं जातिरित्यर्थः ।।
___ ब्राह्मणत्वादिकन्तु नोत्पत्तेः प्रभृत्याविनाशमनुवर्तते । ब्राह्मणो हि तप:श्रुतियोनिसम्बन्धाद् भवति, यथोक्तम् -
'तपः श्रुतिश्च योनिश्च एतद् ब्राह्मणकारणम् '। न च तदहर्जातस्य एतत्त्रयमुत्पत्तेः प्रभृत्युपपद्यते । तथा सत्यपि तस्मिन् पिण्डे विमार्गगामिनि क्रिया_शाद् ब्राह्मणत्वस्य भ्रंश इति नाविनाशमनुवर्तते गोत्वादिवदिति । अतो लक्षणान्तरमाह- असर्वलिङ्गाम् इति। यस्यामपि सर्वं लिङ्गं न विद्यते किन्त्वेकं द्वे लिङ्गे वा भवतः, साऽपि जातिः। यथा ब्राह्मणत्वादिः । अत्र मते गोत्रचरणलक्षणाऽप्यसर्वलिङ्गत्वादेव जाति:। यदाह शाकटायन:'गोत्रचरणमत्रिलिङ्गतैव जातिः' इति। एवं सति देवदत्तत्वादेरपि जातित्वं स्याद् अतस्तन्निरसितुमाह- बह्वामिति। अनेकव्यवक्त्याधारा जातिरित्यर्थः। न चैवं देवदत्तत्वादिरिति। तदेत्यादि। न हि कुमारत्वम्त्पत्ते: प्रभृत्याविनाशमनवर्तते। तिष्ठत्येव हि देवदत्तादिकेऽर्थे तद् विनश्यति, वयोऽन्तरं चोत्पाद्यते इति । न प्रागुत्पत्तिविनाशाभ्यां कुमारत्वमस्ति इति अजातित्वं स्यादिति। पूर्वपक्षे तु कुमारत्ववृद्धत्वादेराकृत्या ग्रहणमस्तीति जातित्वमेवेति कुमारवादीत्यपप्रयोग इति ।।१०८१।
[क० च०]
नाम्नि० । तच्छब्देनेति । धातोः प्रस्तावात् तस्माणिनिर्भवति, अतः प्रस्तुतत्वात् तस्यार्थ एव निर्दिश्यते इत्याह- तच्छब्देनेत्यादि । अयं च प्रकृत्यर्थः, निर्गलितार्थस्तु फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम् इत्युक्तमेव कर्तरि प्रत्यय:, कर्तुश्च ताच्छील्यधर्मोऽस्ति, अतो गम्यमानं ताच्छील्यं तृन्बाधकमिदम् । जायेते अर्थप्रत्ययौ अनया जातिरिति करणे क्तिः, न जातिरजातिस्तस्यां गोत्वादिजातिभिन्नं गणादिकमजातिशब्देनोच्यते, तस्या अमूर्तत्वान्नास्ति नामत्वम् । अतोऽजातिवाचकं नाम अजातिशब्देनोच्यते इत्याहअजातिवाचक इति । उष्णभोजीति ।।
ननु अनन्तरत्वाद् दृशेरनुवर्तने धर्मदर्शीत्युदाहरणं युक्तम्, कथमिदमुच्यते । न च वाच्यं घअन्तादिनि सति ‘धर्मदर्शी' इति सिद्धमेव, वचनवैयर्थ्यात् । सामान्यधातोरनुवृत्तिरिति