________________
३०६
कातन्त्रव्याकरणम्
न सिध्यतीत्याह- कथमित्यादि । वक्तव्यं व्याख्येयम् । दृशिग्रहणं प्रयोगानुसारार्थम अनुवर्तते, तत इत्यर्थः । आमन्त्रयितेति । ताच्छील्ये तृन् । आकृतीत्यादिना जाते: परिभाषामाह- आक्रियते व्यज्यतेऽनया इति आकृतिः संस्थानमुच्यते । गृह्यतेऽनेनेति ग्रहणम् । आकृतिरेव ग्रहणं यस्याः सा आकृतिग्रहणा, संस्थानव्यङ्ग्येति यावत्। एतेन 'गोर्मगः सिंहो व्याघ्रः' इत्यादिषु विषाणादिमत्संस्थानव्यङ्गयत्वाद् आकृतिग्रहणा गोत्वादिलक्षणजातिरुक्ता, गुणक्रिया च प्रत्युक्ता संस्थानव्यङ्गयत्वाभावात् । न हि गुणक्रिययोरन्वितयोरप्याकारविशेषव्यङ्गयताऽस्ति, तयोराश्रयमात्रोपलब्धावपलब्धेरिति ब्राह्मणत्वादिरूपा तु न संस्थानव्यङ्गया, तदधिष्ठानस्य जात्यन्तरेणापि समानत्वात् । अतो लक्षणान्तरमाह - लिङ्गानां च न सर्वभागिति । ___ याऽपि लिङ्गानां सर्वं रूपं न भजते, सर्वाणि लिङ्गानि न भजते इत्यर्थः, साऽपि जातिः । यथा ब्राह्मणत्वादिः । सा हि पुंस्त्रियोरेव वर्तते न तु नपुंसके इत्यसर्वलिङ्गभाग् भवति । विध्यर्थं चेदम् । अत: सर्वलिङ्गभाजोऽपि पूर्वेण जातित्वं स्यादेव । यथा तटः, तटी, तटमिति । यद्येवम् , देवदत्तादिशब्दोऽसर्वलिङ्गभाक्तत्वाज्जातिशब्द: स्यात्? सञ्ज्ञाशब्दश्चायमिष्यते ? सत्यमेतत् , किन्तु नेदं स्वतन्त्रलक्षणम् , अपि तूपदेशापेक्षम् असर्वलिङ्गभाक्षु ब्राह्मणादिषूपदेशव्यङ्ग्या जातिरित्यर्थः । ननु देवदत्तादिशब्दोऽऽप्युपदेशमपेक्षते एव। न ह्यनुपदिष्टे देवदत्तादिशब्दं प्रयुङ्क्ते, प्रयुक्तत्वात् तदर्थं प्रतिपत्तुमर्हतीति? तदयुक्तम्, उपदेशार्थापरिज्ञानात् । उपदेशो टेकस्यां व्यक्तावेकदा कृतोऽनेकव्यक्तिषु तत्तत्प्रत्ययनिमित्तं भवन् सकलव्यापक इहाभ्युपगम्यते नोपदेशमात्रम्। न चैकद्रव्यसमवायिनो देवदत्तादिशब्दस्यैकस्यां व्यक्तावुपदिष्टस्य व्यक्त्यन्तरानुयायित्वमस्ति तदर्थस्य भेदाभावात्। अथ बाल्यादिभेदाद् भेद इति चेत् तदयुक्तम्। न खलु जातिरिह स्वरूपसामान्यमाश्रीयते द्रव्याणाम् , अपि तु सादृश्यसामान्यम्। येन स्वभावेन भावा: समानाः सदृशाः भवन्ति सा जातिरित्यर्थः । न च बाल्यकौमारयौवनादेरवस्थायाः सादृश्यमस्तीति। अतो यद्यप्यमी यदृच्छाशब्दा नानावस्थमेकमर्थमाचक्षते, तथाप्येकैव सा व्यक्तिरिति न दोषः । ___उपदेशापेक्षत्वमाह- सकृदाख्यातनिर्ग्राह्येति । एतत्तु सर्वस्या एव जातेरुपयुक्तम् । सकृद् एकवारमाख्यातोपदिष्टा सती निश्चयेन ग्राह्या । तथाहि काले धवले वा गोपिण्डे सकृदेकवारम् आख्याता पिण्डान्तरेऽपि गौरिति ज्ञाननिर्लाह्या भवति । उपदेशस्य देशकालविक्षिप्तासु अशेषव्यक्तिषु प्रतिव्यक्तिष्वशक्यसाधनत्वादिति । तृतीयलक्षणमाहगोत्रं च चरणैः सहेति । 'अपत्यं पौत्रप्रभृतिकं गोत्रम् ।" (अ० ४।१।१६२) इति पूर्वाचार्यैः परिभाषितमिह गोत्रं गृह्यते । यथा गाग्र्यो वात्स्य इति । यद्यपि गार्यादिषु गार्ग्यत्वादिर्गवादिषु गोत्वादिवदस्ति, तथापि न संस्थानव्यङ्गया, तदाश्रयस्य जात्यन्तरेणापि सदृशत्वात् । नाप्यसर्वलिङ्गभाक् । गाग्र्यो गार्ग्यम् इति सर्वलिङ्गदर्शनाद् अत: पृथगुच्यते। तथा कठबढचादिश्चरणशब्दश्चाध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात् क्रियाशब्द एव न जातिशब्दः।