________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
दृश् +
१३-१६. अन्यादृशः, अन्यादृशी, अन्यादृक्षः, अन्यादृक् । अन्य + टक्, ई, सक्, क्विप् + सि। प्रक्रिया पूर्ववत् ॥ १०८० । १०८१. नाम्न्यजातौ णिनिस्ताच्छील्ये [ ४ | ३ |७६] [सूत्रार्थ]
जातिभिन्न नाम के उपपद में रहने तथा ताच्छील्य अर्थ के गम्यमान होने पर धातु से 'णिनि' प्रत्यय होता है ।। १०८१ ।
३०५
[दु० वृ०]
तच्छब्देन धात्वर्थो निर्दिश्यते । तदेव शीलमस्य कर्तुरिति विग्रहः । अजातिवाचके नाम्न्युपपदे धातोस्ताच्छील्ये गम्यमाने णिनिर्भवति । उष्णभोजी, धर्मावभाषी । नाम्नीति किम् ? उपभोक्ता, सम्भोक्ता । कथम् उदासारी, प्रत्यासारी, ब्रह्मवादी ? साधौ च साधु ददातीति साधुदायी । साधु करोतीति साधुकारीति वक्तव्यमेव । अजाताविति किम् ? ब्राह्मणानामन्त्रयिता ।
-
आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ।। प्रागुत्पत्तिविनाशाभ्यां सत्त्वस्य युगपद् गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः । । इत्यन्ये ।
तदा कुमारवादीति भवितव्यमेव, अजातित्वात् ॥ १०८१| [दु० टी०]
नाम्नि०। जायन्ते ययाऽनुगताः सर्वपदार्थाः इति जातिः । सा चाभिन्नबुद्धिध्वनिप्रसवनिबन्धनमनेकव्यक्त्यास्पदमर्थवृत्तिलक्षणमाकाङ्क्षितानवधारितव्यक्तिविशेषणं सामान्यमित्युच्यते, सा च बहुप्रकारा लोकत एव प्रसिद्धा । यथा गौरश्वः शकुनिर्मृगो व्याघ्र इति संस्थानाभिव्यज्यमाननियतशरीरा काचिद् 'ब्राह्मणक्षत्रियवैश्यशूद्राः कैवर्तो निषादः ' इत्याचारविशेषलिङ्गानुमीयमानस्वरूपा, काचिद् गार्ग्यो बैदः कठः कालाप इति गोत्रचरणाभिधीयमाना प्रतीतिमात्रगम्या इत्याह-आकृतीत्यादि । गृहीतिर्ग्रहणम्, आकृतेर्ग्रहणं यत्रेति भिन्नाधिकरणे बहुव्रीहिः । एवं कुमारीभार्येति भवितव्यम् जातेः पुंवद्भावस्याभावात् । अपरस्मिंस्तु कुमारभार्य इति अजातित्वात् पुंवद्भावः । कथमित्यादि । वक्तव्यं व्याख्येयम्। अनाम्नोऽपि दृश्यते इति, तेन उत्प्रतिभ्यामाङः सर्तेस्ताच्छील्ये भवति अताच्छील्येऽपि दृश्यते साधुशब्दे साधु क्रियाविशेषणम्, तथा ब्रह्मणो वद इति ब्रह्मवादी । अणोऽपवादः । अथवा अभिधानादल् वावदनं वदः, ब्रह्मणो वदः । सोऽस्यास्तीतीन् ॥ १०८१ ॥
·
[वि० प० ]
नाम्नि०। उत्प्रतिभ्यामाङः सर्तेरिति वक्तव्यम् अनामत्वात् । तथा ब्रह्मणो वद इति । जातित्वात् ताच्छील्याभावाद् वा। साधौ चेति साधुशब्देऽप्यताच्छील्ये क्रियाविशेषणे