________________
२९२
कातन्त्रव्याकरणम्
३. गोषाः इन्द्रः । गो - सन् - विट् + सि । 'गो' शब्द के उपपट में रहने पर 'षणु दाने' (७।२) धातु से 'विट्' प्रत्यय आदि कार्य पूर्ववत् ।।
४. विषखाः शिवः । विष + खन् + विट् + सि । 'विष' शब्द के उपपद में रहने पर ‘खनु अवदारणे' (१।५८४) धातु से 'विट्' प्रत्यय आदि कार्य पूर्ववत् ।
५. अब्जाः लक्ष्मी: । अप् + जन् + विट् + सि । 'अप' शब्द के उपपद में रहने पर 'जन प्रादुर्भावे' (३।९४) धातु से 'विट्' प्रत्यय आदि कार्य पूर्ववत् ।।१०६९। १०७०. मन्त्रे श्वेतबहुक्थशंसपुरोडाशावयजिभ्यो
विण [४।३।६५] [सूत्रार्थ]
मन्त्र अर्थ में 'श्वेत' के उपपद में रहने पर 'वह' धातु से, ‘उक्थ' के उपपद में रहने पर 'शंस्' धातु से, 'पुरस्' के उपपद में रहने पर 'दाश्' धातु से तथा 'अव' के उपपद में रहने पर 'यज देवपूजासङ्गतिकरणदानेषु (१।६०४) धातु से 'विण्' प्रत्यय होता है ॥१०७०।
[दु० वृ०]
एभ्यो विण् भवति मन्त्रेऽर्थे। श्वेतैरुह्यते श्वेतवा इन्द्रः। उक्थानि उक्थैर्वा शंसति उक्थशा यजमान:। पुरो दाश्यत्येनं पुरोडाः। दस्य डत्वं निपातनात्। पुरो दश्यते इति वा अकारान्तश्च निपात्यते। 'सदा पुरोडाशपवित्रिताधरे' (कादम्बरी-मङ्गलाचरण- श्लोक:) इति। अवयजते अवयाः। विगमे व्यञ्जनादौ चैषामन्तस्य डस् - श्वेतवोभ्याम्। उक्थशोभ्याम् पुरोडोभ्याम्। अदन्तपक्षे तु - पुरोडाशाभ्याम्। स्वरादौ तु श्वेतवाहौ, उक्थशंसौ, पुरोडाशी, अवयाजौ। मन्त्रे रूढित्वाद् यथादर्शनं गम्यते। सज्ञात्वाल्लोके प्रयुज्यन्ते इति मतम् ।।१०७०।
[वि० प०]
मन्त्रे०। श्वेतवा इत्यादि। विरामे व्यञ्जनादौ चैषामन्तस्य डसि कृते डानुबन्धेऽन्त्यस्वरादेलोपे "अन्त्वसन्तस्य चाधातोः सौ" (२।२।२०) इति दीर्घः । पुरो दश्यते इति वेति । 'दा, दाने, दन्श् दशने' (१।५८७, २९०) वेति भावः । विराम इत्यादि । विरामे दर्शितम् । श्वेतवोभ्यामित्यादिना व्यञ्जनादौ डसं दर्शयति । ननु श्वेतैरुह्यते इत्यादौ क्वचित् कर्मणि क्वचित् कर्तरि। डसादेशश्च वचनमन्तरेण कथं प्रतीयते इत्याह – मन्त्र इत्यादि । एतेन "अन्त्वसन्तस्य चाधातोः सौ" (२।२।२०) इत्यत्रान्तग्रहणस्योपदेशासन्तत्वप्रतिपादनार्थत्वादिह लाक्षणिकस्य कथं दीर्घः इति देश्यमपास्तम्, मन्त्रे तथैव दर्शनात् । अत एव सम्बुद्धावपि दीर्घत्वमेषामेके प्रतिपना इति ।।१०७०।
[क० च०] मन्त्रे० । मन्त्रविषये संज्ञात्वात् कर्मणि च भवति । श्वेतैः श्वेताश्वेतैरुह्यते या