________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
[रूपसिद्धि]
+
१. शक्रहः । शक्र + हन् + ड सि । शक्रं वध्यात् । 'शक्र' शब्द के उपपद में रहने पर 'हन् हिंसायाम् ' (२।४) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, कारण 'अन्' भाग का लोप तथा विभक्तिकार्य ।
डानुबन्ध
के
२. क्रोशहः । क्रोश + हन् + ड + सि । क्रोशं हन्ति । 'क्रोश' शब्द के उपपद में रहने पर 'हन्' धातु से 'ड' प्रत्यय आदि पूर्ववत् ॥ १०५५। १०५६. अपात् क्लेशतमसोः [४ । ३ । ५१]
[ सूत्रार्थ]
कर्म कारक में 'क्लेश-तमस्' शब्दों के उपपद में रहने पर 'अप' उपसर्गपूर्वक 'हन्' धातु से 'ड' प्रत्यय होता है || १०५६ ।
[दु० वृ०]
क्लेशतमसोः कर्मणोरुपपदयोरपात् परस्य हन्तेर्डो भवति । क्लेशापहः, तमोऽपहः । कथं सुखापहः, दुःखापहः, ज्वरापहः, वातपित्तकफापहः, विषाग्निदर्पापहः ? "अन्यतोऽपि च'' (४।३।४९) इति सिद्धम् । प्रपञ्चार्थं डविधानम् । कथं दार्वाघाट:, चार्वाघाट:, वर्णसंघाटः? घटतेर्भविष्यति । चारु आहन्ति चार्वाघाट: । एवं वर्णसंघाटः । दार्वाघाटोऽपि तर्हि स्यात् ? असञ्ज्ञायामिष्यत एव ॥ १०५६।
[दु० टी०]
अपात्॰ । दार्वाङ्पूर्वस्य हन्तेः सञ्ज्ञायामणि टादेशो ऽन्त्यस्य नित्यं चार्वाङ्पूर्वस्य वा सम्पूर्वस्य कर्मणि नोक्त इति चोदयन्नाह कथमित्यादि । धात्वन्तरेण प्रतिपादयन्नाहघटतेरित्यादि । ‘अनेकार्था हि धातवः' इति घटेरपि हन्त्यर्थः । नास्ति भेद इति भावः । टादेशाभावपक्षे हन्तेरेव प्रयोग इत्याह- चारु आहन्तीति । धातुद्वयेन रूपद्वयसाधनं न दार्वाङ्पूर्वस्यापि रूपद्वयप्रसङ्ग इत्याह दार्वाघाट इत्यादि । आकर्षणे तर्हि शब्दः संज्ञायां तावदयमप्रयोगः संज्ञैव न भवतीति । असंज्ञायामपि निषेधाभावादभ्युपगमयन्नाह - असंज्ञायामित्यादि ॥ १०५६।
-
―
२७७
—
-
[वि० प० ]
अपात् । दार्वाहनोऽण्यन्तस्य च टः संज्ञायाम् इति वक्तव्यम् । अस्यार्थःदारुशब्दोपपदे आङ्पूर्वस्य हन्तेरणि टादेशः सञ्ज्ञाविषये । दारु आहन्तीति दार्वाघाट: । चारो वा चार्वाघाट:, चार्वाघातः । कर्मणि समि च वर्णसंघाट:, वर्णसंघातः, पदसंघातः । तदिह न वक्तव्यमित्याह- कथमिति । घटतेरिति धातूनामनेकार्थत्वाद् घटना हन्त्यर्थेन सिध्यतीति भावः । टादेशाभावपक्षे हन्तिरेवेत्याह चारु आहन्तीति। एवमिति । वर्णान् संहन्ति वर्णसंघातः तथा पदसंघात इति । यद्येवं सर्वत्र रूपद्वयस्य प्रसङ्ग इति देशयन्नाह - दार्वाघातोऽपि तर्हि स्यादिति । असंज्ञायां तु निषेधाभावात् स्यादेवेत्याह असंज्ञायामिष्यते इति ॥ १०५६ |
-
—