________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
२६९ १०४७. क्षेमप्रियमद्रेष्वण च [४।३।४२] [सूत्रार्थ]
कर्म कारक में 'क्षेम-प्रिय-मद्र' शब्दों के उपपद में रहने पर 'ख' तथा 'अण्' प्रत्यय होता है ।।१०४७।
[दु० वृ०]
एषु कर्मसूपपदेषु कृञः खो भवति अण् च । क्षेमङ्करः, क्षेमकारः। प्रियङ्करः, प्रियकारः । मद्रङ्करः, मद्रकारः । वेति सिद्धेऽणग्रहणं हेत्वादिष्वपि टबाधनार्थम् । एष्विति किम् ? भद्रकारः ।।१०४७।
[वि० प०]
क्षेम०। कर्मण्यएपदे पक्षेऽण भविष्यति । वाग्रहणे तु चकारो न कर्तव्यो भवतीत्याह -. वेत्यादि । तेन 'क्षेमकार:' इति हेत्वाद्यर्थविवक्षायामपि न टो भविष्यतीत्यर्थ: ।।१०४७/
[क० च०]
क्षेम० । वेत्तीति । ननु वाग्रहणे कृते उत्तरत्र वाऽधिकारः कथं न स्यात् , तर्हि भवन्मतेऽणधिकार: कथन स्यात् । नैवम्, अन्यत्र कर्मण्युपपदे दर्शनात् । अत्रापि तदेव कल्प्यते, दृष्टपरिकल्पनावशाच्चकारसम्बन्धाद् वा समुदायगौणत्वम् ? सत्यम् , अधिकारस्येष्टविषयत्वाद् वा न वर्तते ।।१०४७।
[समीक्षा]
'क्षेमङ्करः, क्षेमकार:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ख (खच्)-अण' प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है - "क्षेमप्रियमद्रेऽण च” (अ० ३।२।४४) । अत: उभयत्र प्राय: समानता ही है ।
[रूपसिद्धि]
१. क्षेमङ्करः, क्षेमकारः। क्षेम + कृ + ख, अण् + सि । क्षेमं करोति । 'क्षेम' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा ‘ख-अण्’ प्रत्यय, क्रमश: गुण - वृद्धि, मकारागम तथा विभक्तिकार्य ।
२. प्रियङ्करः, प्रियकारः। प्रिय + कृ + ख, अण् + सि । प्रियं करोति । 'प्रिय' शब्द के उपपद में रहने पर 'कृ' धातु से ‘ख - अण्' प्रत्यय आदि कार्य पूर्ववत् ।
३. मद्रङ्करः, मद्रकारः। मद्र + कृ + ख, अण् + सि । मद्रं करोति । 'मद्र' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख-अण्' प्रत्यय आदि कार्य पूर्ववत् ।।१०४७।
१०४८. भावकरणयोस्त्वाशिते भुवः[४।३।४३] [सूत्रार्थ
'आशित' शब्द के उपपद में रहने पर भाव तथा करण अर्थ में 'भू सत्तायाम्' (१।१) धातु से 'ख' प्रत्यय होता है ।।१०४८।