________________
२२
कातन्त्रव्याकरणम् पाणिनीयादिव्याकरणान्तरापेक्षया सरलं संक्षिप्तं छान्दस-ईश्वर-अलस-बालादीनां कृते क्षिप्रं प्रबोधपरं च कातन्त्रं सूत्रैरुपनिबध्य व्याकरणवाङ्मये लोकव्यवहारप्रधानां माहेन्द्री परम्परामुज्जीवयन्तो जयन्ति। तान् सर्वान् प्रति सविनयं कृतज्ञतामावेदये।
नवदिल्लीस्थश्रीकुन्दकुन्दभारतीन्यासाधीश्वरा मुनिवर्याः श्रीविद्यानन्दमहाराजा अवसरेऽस्मित्रैव कथमपि विस्मर्तुं शक्यन्ते, ये कातन्त्रव्याकरणमभिलक्ष्य आचार्यउमास्वामिपुरस्कारं कातन्त्रसिन्धु-सम्मानितपदवीं च मह्यं प्रदाय व्याकरणमिदं जैनसमाजस्य गौरवग्रन्थमुद्घोषयन्तो द्विदिवसीयामखिलभारतीयसंगोष्ठी पञ्चदशदिवसीयां कार्यशालां च समायोजितवन्तः। उक्तन्यासपरिसरे नवनिर्मिते खारवेलभवने कातन्त्रपुस्तकालयस्थापनायाः प्रचारप्रसारव्यवस्थायाश्च तेषां महान् संकल्पो वर्तते। शीघ्रमेवायं संकल्पः सफलतां प्राप्स्यतीत्यहमाशासे। मुनिवर्येभ्यस्तेभ्यः श्रीविद्यानन्दमुनिमहाराजेभ्यस्तदीयप्रधानशिष्येभ्यश्च महाराजश्रीश्रुतसागरप्रभृतिभ्यो भूयांसं प्रणामाञ्जलिं निवेदयामि, तेषां सकाशादाशीराशिं च कामये।
ये हि प्राच्यभारतीयग्रन्थनिधिसंरक्षणसंकल्पपरा मान्याः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयप्रकाशनसमितिसदस्या महतीमिमां कातन्त्रव्याकरणप्रकाशनयोजनामङ्गीकृतवन्तस्ते वस्तुत: सन्ति प्रसङ्गेऽस्मिनभिनन्दनीयाः। विदितमेव विदुषां यत् तृतीयभागस्य द्वितीयखण्डे (पञ्चमे खण्डे) 'नान्दी वाक' रूपप्रस्तावनाया माध्यमेन छन्दोबद्धया वाचा ये कातन्त्रकारमाचार्यशर्ववर्माणमाराध्यम्, कातन्त्रानुशीलनसम्पादनसमीक्षादिपरायणं संपादकं मामाराधकम्, ऐन्द्रं विभुत्वमापत्रं राजेन्द्राभिधानमात्मानं व्याकरणस्य माहेन्द्र-परम्पराप्रवर्तकमिन्द्रम्, प्रकाशननिदेशकं डॉ० हरिश्चन्द्रमणित्रिपाठिनं ग्रन्थप्रसूनसुषमासौरभप्रकाशनेन विभ्राजमानं सुरद्रुममुदघोषयन्, तान् विविधविद्यानुशीलनावदातान्त:करणान् अभिनन्दनीयान् मनीषिवर्यान् कविगोष्ठीषु प्रथितप्रभावान् राष्ट्रपतिपुरस्कारेण सभाजितान् पूर्वकुलपतिप्रवरान् प्रो० श्रीराजेन्द्रमिश्रमहोदयान् प्रति पर:शतप्रणामपुष्पाञ्जलिना कृतज्ञतां विज्ञापयत्रहमात्मानं कृतिनं मन्ये। विशिष्टाद्वैत-आगमादिविविधविद्याविशारदा लखनऊविश्वविद्यालयीयसंस्कृतविभागाध्यक्षचरा: संमाननीयाः कुलपतिप्रवरा: श्रीमन्त: अशोककुमारकालियामहोदयाः प्रसङ्गेऽस्मिन् भूयो भूयः कृतज्ञताप्रकाशनेनाभिनन्द्यन्ते। अर्थव्यवस्थासमाधानादिकार्यजातस्य निर्वाहाय कुलसचिवः, निदेशकः, तदीयसहयोगिनश्चापि धन्यवादमर्हन्ति। सुहृद्वर्याः प्रकाशननिदेशका डॉ० श्रीहरिश्चन्द्रमणित्रिपाठिमहाभागा व्याकरणस्यास्य प्रकाशनविधावादित एवाभिरुचिपूर्वकमविस्मरणीयं साहाय्यं कृतवन्तस्तेन तेभ्यः सद्भावसंवलितान् धन्यवादान् वितरामि कृतज्ञतां च विज्ञापयामि।