SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ भूमिका २३ धर्मपत्नी श्रीमती कृष्णा द्विवेदी समये समये पाण्डुलिपिपठनादिकार्येण सुगमतां स्वारस्यं च सम्पादितवतीति धन्यवादार्हा सा शुभाशीर्भिः संयोज्यते । काव्यादर्शकाव्यप्रकाशयोस्तुलनात्मकमध्ययनमधिकृत्य लब्धविद्यावारिधिशोधोपाधिर्मम ज्येष्ठपुत्रो डॉ० शरच्चन्द्रद्विवेदः ईक्ष्यपत्र संशोधन - लिप्यन्तरादिकार्यसम्पादनेन वाञ्छितं साहाय्यं यथासमयमाचरितवानिति भूयसेऽभ्युदयाय तस्मै शुभाशिषो वितीर्यन्ते । ईक्ष्यपत्रसंशोधनादिव्यवस्थाकार्येषु नितान्तं जागरूकाः डॉ० हरिवंशपाण्डेय कन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितमुद्रणयोजनादक्षा: सञ्चालक-आनन्दकुमारपाण्डेयप्रभृतयः आनन्दप्रिण्टिङ्गप्रेससदस्याश्च सन्ति नूनं धन्यवादार्हाः । त्रिकं कातन्त्राख्यं विदितमिह संक्षिप्तसुगमं पृथिव्यां माहेन्द्रमनुसरति धारामभिमताम् । समृद्धं व्याख्याभिर्बहुविधमनोज्ञं सुकलितं सदाराध्यं सद्भिः शिवशिवसुताभ्यामनुमतम्।। १। दुर्गसिंहकृता वृत्तिष्टीका चापि मनोरमा । पञ्जी कलापचन्द्रश्च तत्त्वार्णवकृतिः शुभा । । २ । तासां कातन्त्रव्याख्यानां सूत्राणां चानुशीलनात् । कृतं सम्पादनं भूयाद् बुधानां प्रीतये सदा । । ३ । वाराणसी श्रावणकृष्ण अमावास्या, गुरुवासरः दि० ०४/०८/२००५ विदुषामाश्रवः जानकीप्रसादद्विवेदः पूर्वसंस्कृतविभागाध्यक्षशब्दविद्यासंकायाध्यक्ष कुलसचिवपदवीकः के० उ०ति०शि०सं० - वाराणसी सारनाथ
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy