________________
२६०
कातन्त्रव्याकरणम्
[दु० वृ०]
एषु कर्मसूपपदेषु धेट: खश् भवति । शुनी धयतीति शुनिन्धयः, स्तनौ धयानि स्तनन्धयः । एवं मुञ्जन्धयः, कूलन्धयः, आस्यन्धयः, पुष्पन्धयः। मुजादिषु केचिन्नेच्छन्ति। प्रकृतावानर्थक्याद् धेटष्टकारो नदाद्यर्थो विज्ञायते - शुनीन्धयी, स्तनन्धयी ।।१०३६।
[दु० टी०]
शुनी० । तिनिर्देशे सति धाओऽप्रसङ्गादित्याह –प्रकृतावित्यादि । अवयवे कृतं समुदायस्य विशेषकं भवति ।।१०३६।
[वि० प०]
शनी० । शनिन्धय इति "दीर्घस्योपपदस्य' (४।१।२०) इत्यादिना ह्रस्वे सति पूर्ववन्मोऽन्तः प्रकृतावित्यादि । 'धयः' इति निर्देशेऽपि नान्यस्य धातो: प्रसङ्गः ।।१०३६।
[क० च०]
शुनी० । प्रकृतावानर्थक्यादिति । एतेनावयवकृतं सिद्धं लिङ्गं समुदायस्य विशेषकमिति समर्थितम् ।।१०३६।
[समीक्षा]
'स्तनन्धयः, स्तनन्धया' आदि शब्दों के सिद्धयर्थ दोनों ही व्याकरणों में 'ख' प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं – “नासिकास्तनयोधेिटो:, नाडीमुष्ट्योश्च' (अ० ३।२।२९, ३०)। पाणिनि की अपेक्षा कातन्त्रकार ने अधिक शब्दों का पाठ किया है, अत: यह कातन्त्रीय विशेषता ही कही जाएगी ।
[विशेष वचन १. मुजादिषु केचित्रेच्छन्ति (दु० वृ०) । २. अवयवे कृतं समुदायस्य विशेषकं भवति (दु० टी०; क० च०) । [रूपसिद्धि]
१. शुनिन्धयः । शुनी + धेट - खश् + सि । शुनी धयति । 'शुनी' शब्द के उपपद में रहने पर 'धेट पाने' (१।२६४) धातु से प्रकृत सूत्र द्वारा खश् प्रत्यय, “दीर्घस्योपपदस्यानव्ययस्य खानुबन्ध'' (४।१।२०) से ईकार को ह्रस्व, “ह्रस्वारुषोर्मोऽन्तः" (४।१।२२) से मकारागम, गण, अनुस्वार, परसवर्ण तथा विभक्तिकार्य ।
२. स्तनन्धयः । स्तन + धेट + खश् + सि । स्तनौ धयति । 'स्तन' के उपपद में रहने पर 'धेट्' धातु से ‘खश्' प्रत्यय आदि कार्य पूर्ववत् ।
३-६. मुञ्जन्धयः । मुञ्ज + धेट - खश् + सि । कूलन्धयः । कूल + धेट + खश् + सि । आस्यन्धयः । आस्य + धेट - खश् + सि । पुष्पन्धयः । पुष्प + धेट + खश् + सि । प्रक्रिया पूर्ववत् ।।१०३६।