________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
२३९ [दु० वृ०]
कर्मणि समि चोपपदे चक्षिङो धातो: को भवति। गां सञ्चष्टे गोसङ्ख्यः । सोपसर्गत्वाद् वचनम्। मूलानि विभुजतीति मूलविभुजो रथः। नखमुचानि धषि। अभिधानात् प्राक्तन एव कः। तथा काकेभ्यो गुहितव्याः काकगुहास्तिलाः। कर्मण्यपि दृश्यते।।१०१३।
[दु० टी०]
समि०। अभिधानानुसारेण मूलविभुजादिभ्यश्च को वक्तव्य: इत्याह – मूलानि विभुजतीति। वक्रीकरोतीति। नखानि मोचयन्तीतीनर्थे स्वभावाद् धातुः। प्राक्तन् एव क इति नाम्युपधलक्षण इत्यर्थः। विभुजतीति विभुजः, मूलानां विभुजः इति षष्ठीसमासः। एवं नखानां मुचानि। काकेभ्यो गुहा इति पञ्चमीसमास:। यद्येवं तुन्दशोकयोः परिमृजापनुदोरित्यनर्थकं (पूर्वापरभावेनोत्सर्गापवादेन, तथाहि 'चित्रलिखो यष्टिक्षिपः' इत्यण् न युक्तः। पक्षे 'चित्रस्य लिखो यष्टेः क्षिपः' इति षष्ठीसमासः केन वार्यते, तस्माद् यथाभिधानमेव प्रयोग:)? सत्यम्, मन्दमतिबोधनार्थमेव वचनं हि तत् ।।१०१३।।
[वि० प०]
समि० । गोसङ्ख्य इति । चक्षिङः ख्याञ् । 'ख्या प्रकथने' (२।२४) इत्यस्य तु सम्पूर्वस्य नाभिधीयते प्रयोगः । मूलानीत्यादि । नखान् मुञ्चन्तीति नखमुचानि। स्वभावादिह इनर्थे धातुः । नखान् मोचयन्तीत्यर्थः । संग्रहमाह - अभिधानादिति । अभिधानानुसारेण मूलविभुजादिभ्यः प्राक्तनो नाम्युपधलक्षण एव को वेदितव्यः। यथा विभुजतीति विभुजः, मूलानां विभुजो मूलविभुजः। मुञ्चन्तीति मुचानि, नखानां मुचानि नखमुचानीति षष्ठीसमासः। मूलानि विभुजतीति वाक्ये कर्मण्यण् नाभिधीयते। तथा काकेभ्यो गुहितव्याः काकगुहाः इति पञ्चमीसमासः। एवं सति "तुन्दशोकयोः परिमृजापनुदोः" (४।३।६) इति मन्दमतिबोधनार्थमेव भवति। नाम्युपधलक्षणेनैव कप्रत्ययेन सिद्धत्वादिति भावः।।१०१३।
[क० च०]
समि०। पञ्जिका तथेति। एतेनोपपदस्य समासं प्रति न यत्नः, किन्तु कर्मणि कप्रत्ययं प्रत्येवेति प्रतिपादितम् ॥१०१३।
[समीक्षा]
'गोसंख्यः' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है- “समि ख्यः' (अ० ३।२७)। अत: समानता ही
[विशेष वचन] १. मन्दमतिबोधनार्थमेव वचनं हि तत् (दु० टी०, वि० प०)। [रूपसिद्धि] १. गोसंख्यः । गो + सम् + चक्षिङ्-ख्या + क + सि। गां संचष्टे। ‘गाम्' इस