________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २२९ यदि पक्तुमिति नोपपदं तदा कथं कृञोऽण् स्यादित्यर्थः । ननु पक्तुं व्रजतीति पच्धातोरणस्तु तथा पाचको व्रजतीति व्रज्धातोरस्तु ? सत्यम् । यदि क्रियावचनस्य कर्मशब्दस्य ग्रहणं स्यात् तदाऽनेनैव सिद्ध कथं कर्मणि चाण् इत्यनेन क्रियोपपदेऽण विधीयते। यथा काण्डकारो व्रजतीति, तस्मात् तद्वचनबलान्नायं क्रियावचन: कर्मशब्द:। अथ तेनैकदा कर्मोपपदे च विधीयते, अनेन च क्रियामात्रोपपदे इति, तत्कथं काण्डकारो व्रजतीति स्यात् ? सत्यम् । कारो व्रजाति व्युत्पाद्य पश्चात् काण्डस्य कारः काण्डकार इति भविष्यति । यद् वा 'कृत्रिमाकृत्रिमयोः कृत्रिमविधिर्बलवान्' (व्या० परि० ७) इति न्यायाच्छास्त्रसङ्केतितस्य कर्मशब्दस्य साधनवचनस्येह ग्रहणं न तु क्रियावचनस्य। यद् वा न च सन्देहे गुरुलाघवचिन्ता युक्तिमतीति क्रियायामिति कुर्यात् । ननु बहून्युदाहरणानि किमिति दर्शितानीत्याह - काण्डकार इतीति ।।
ननु शरान् काण्डं करोतीति प्रकृत्यपेक्षणात् सापेक्षे कथं प्रत्यय: स्यात् ? सत्यम्। प्रकृतिमात्रापेक्षेऽण् भवतीति यथा घटीकार इत्यदोषः । किञ्च विद्यमानेऽपि प्रकृतिरेव बुद्धयाश्रिता, न तु प्रयोगकाले शरानिति प्रयुज्यते, तत् कथं सापेक्षतेति हेमः। कृञ उपपदादिति न समानाधिकरणं पदम् , किन्तु कृञ्सम्बन्धिन उपपदात् पचतीति पदादाह -तत्र हीति । तत्र तुमधिकारे हि यस्माद् भावेऽथे उपपदे क्रियार्थक्रियोपपदे प्राप्तोऽण कर्मणि चाण इत्यनेनैव विधीयते । अन्यथा यद्यनेन स्यात् तदा तेन किमित्यर्थः। अथ ‘पक्त्वा भुङ्क्ते' इत्यत्राप्ययमेव सिद्धान्तो देय इत्याह – ‘पक्त्वा भुङ्क्ते' इति ।।१००६।
[समीक्षा]
'कुम्भकारः, काण्डलाव:, वेदाध्याय:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अण्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - “कर्मण्यण्' (अ० ३।२।१) । काशिकावृत्तिकार जयादित्य तथा कातन्त्रवृत्तिकार दुर्गसिंह ने अभिधानाभाव के कारण ‘आदित्यं पश्यति, ग्रामं गच्छति, हिमवन्तं शृणोति' इत्यादि में 'अण' प्रत्यय का अभाव सिद्ध किया है । इस प्रकार सामान्यतया उभयत्र समानता ही है ।
[विशेष वचन]
१. आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छतीत्यनभिधानाद् वाक्यमेव (दु० वृ०)।
२. यद्यपि 'वेदा नित्याः' तथाप्यधीयानेन विप्रेण वेदा अभिव्यज्यन्त इत्यभिव्यक्तिविकारो वेदानामध्ययनेन क्रियते इति (दु० टी०) ।
३. उपपदं च तदेव, यदुपकारि पदं क्रियायाः (वि० प०) । ४. च्विप्रत्ययो हि विकाराद् भवति, विकारश्च प्रकृतिमन्तरेण न सम्भवति (वि० प०)। [रूपसिद्धि] १. कुम्भकारः। कुम्भ + अम् + कृ + अण् + सि । कुम्भं करोति । 'कुम्भम्'