________________
२२८
कातन्त्रव्याकरणम् ननु निर्वयविकार्ययोः को भेदः. पूर्वमजातत्वेनासीदेवासाविदानी जायते इत्यत्रापि निर्वय॑त्वं घटते । अथ मृत्पिण्डं घटं करोतीति जन्मना प्रकाशते इति निर्वय॑त्वं घटताम् ? सत्यम् । यस्य द्रव्यस्य परिणामप्राप्तौ विद्यमाना अविद्यमाना वा प्रकृति श्रीयते तन्निवर्त्यम् । यस्य तु आश्रीयते तद् विकार्यम् , तेन कुम्भं करोतीति मृत्पिण्डं नापेक्षते इति निर्वय॑म् । काण्डं करोतीति शरानपेक्षते इति विकार्य कर्म । तथा चोक्तम् -
सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ।।
(वा० प० ३।७।४७) । अविद्यमाना यथा ‘संयोगं करोति, रतिं करोति' । कर्मणीति भावसप्तमीयम् , कर्मण्युपपदे सति अण् भवतीत्यर्थः । महान्तमिति । ननु महच्छब्दोऽपि कर्म, तस्याप्युपपदत्वे कतो बाह्यापेक्षेत्यभयोः कर्मणोरुपपदयोरण स्यात् । नेवम् , प्रथमाविभक्तिविशेषणविभक्त्योः कारकत्वं नास्ति, अव्यतिरिक्तत्वात् । द्वितीयादयस्तुल्याधिकरणे पृथग विभक्तयो न भवन्ति इति विशेष्यवद् एकाधिकरणस्य प्रायेणेति न्यायात् । च्यन्त इति । च्यन्त उपपदे किम्भूते प्रागवस्थार्थमात्रापेक्षे । पञ्जिका न बाह्यार्थ इति । प्रथमतः शब्द उच्चार्यते । ततश्चोच्चार्यमाणाच्छब्दादर्थः प्रतिपद्यते इत्यर्थस्य बहिरङ्गता । यदि तेन सन्देहनेति । ननु (भृतो कर्मशब्द इति शब्दग्रहणात् ) शब्दस्वरूप एव सञ्ज्ञा । तत् कथं शब्देन सज्ञा शब्दसञ्जति भेदेनान्वयः ? सत्यम् , यथा धान्येन धनं धान्यधनमिति। अत्र यदि धान्यं धनं तथापि सामान्यविशेषभावेन भेदान्वयः । धनमित्युक्ते सामान्य धनं रत्नादिकं प्रतीयते । धान्यशब्देनेतरव्यवच्छेदः क्रियते इति तद्वदत्रापि सज्ञेत्युक्ते केनेत्याकाङ्क्षायां शब्देनेत्युच्यते । अत: सोपपद इति ।
नन्वत्र किं प्रमाणम् , कर्मण्यभिधेयेऽण् भवतीत्यर्थ: कथन स्यात् , नैवम् , तदा अण् कर्मणीति कुर्यात्। तस्मात् प्रानिर्देशादुपपदत्वं प्रतिपादितम्। पक्तुं करोतीति। ननु धातो स्तुमुत्पत्तिं प्रत्येवोपपदत्वम्. तेन किमायातम् अण उत्पत्तिं प्रति पक्तुमित्यस्योपपदत्वाभावादण न स्यात्। अथ कृधातोरुपपदत्वमिति केन मूर्खणोच्यते किन्तु कराताति पदस्येव । तथा च तस्य तेन समास इत्यत्र कारको गत: इति गतशब्दस्योपपदत्वमिति सति कथं प्राग्भावसमासौ न स्याताम् इति पूर्वपक्षे गतशब्दस्य द्रव्यवाचकत्वात् क्रियामात्रोपपदत्वमिति । न च गमेरुपपदत्वमिति वाच्यम् । उपकारि पदमुपपदमिति अन्वर्थतया गमेः प्रकृतित्वादिति टीकायां सिद्धान्तदर्शनात्। तस्मात् करोतीति सिद्धपक्षस्य तुमुत्पत्तिं प्रति समीपवर्तित्वम् । तस्मात् कथमस्मादण: सम्भव:, धातोरित्यधिकारवशात् तर्हि करोतेरत्रोपपदत्वमिति पञ्जिकाग्रन्थः कथं सङ्गच्छते? सत्यम्, करोतेरिति कृधातुरिति नार्थः, किन्तु करोतीति करोतिपदस्यानुकरणम्, यथा ‘पचतिमाह' इत्यादि । तर्हि कृञ उपपदत्वं स्यादिति हेमोक्तं न संगच्छते चेत् कटी शृणोतु, पक्तुमिति सिद्धपदस्य समीपवर्तित्वाभावे तमोऽसम्भवात्। अतो न पक्तुमिति कृत्रः परस्याण उत्पत्तिं प्रति उपपदत्वमित्यर्थः। अत एवाह-कृञ इति।