________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
२२७
[वि० प०]
कर्म०। कर्मशब्द: स्वरूपार्थः क्रियाओं वा । “यत् क्रियते तत् कर्म' (२।४।१३) इति वचनात् कर्मसंज्ञापि विद्यते । तत्राद्यस्य न ग्रहणम् 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति वचनात् । अस्यार्थः - शब्दस्य स्वं रूपमेव न बाह्यार्थो गृह्यते यदि तेन शब्देन संज्ञा न गम्यते । अत्र च कर्मसंज्ञाऽस्तीति न स्वरूपस्य ग्रहणम् । क्रियार्थोऽपि न गृह्यते, पूर्व निरुपपदविधयो दर्शिताः, अत: सोपपदविधयः कथ्यन्ते इति कर्मेदमुपपदमिष्यते । उपपदं च तदेव यदुपकारि पदं क्रियायाः। न च ‘पचति, करोति' इत्यादौ पचत्यादिपदस्योपकारित्वम् अनभिसम्बन्धात्। अथ पक्तं करोतीत्यस्ति सम्बन्ध: क्रियायामुपपदे तुमो विधानादिति। वैवम् , केवलं करोतिरत्रोपपदं न पक्तुमिति। कथं कृञः कर्तर्यण् स्याद् इत्याह – कर्मसंज्ञोपपद इति। तत्र ‘कुम्भकार:' इति निर्वत्यें। ‘काण्डकारः' इति विकायें । 'शरलाव:, वेदाध्यायः' इति प्राप्ये। क्वचित्तु प्राप्ये कर्मणि न दृश्यते इत्याह – आदित्यं पश्यतीति ।
__ सापेक्षत्वादिति । घटो हि महत्त्वमपेक्षमाणो नोपकर्तुं समर्थः इत्यस्योपपदत्वमेव नास्तीत्यर्थः । अघटमित्यादि । प्राची चासाववस्था चेति प्रागवस्था, सैवार्थमात्रम्, तत्रापेक्षा यस्य च्यन्तस्य तस्मिन्नित्यर्थः । अयमर्थः - च्चिप्रत्ययो हि विकाराद् भवति, विकारश्च प्रकृतिमन्तरेण न सम्भवतीति पूर्वावस्थामपेक्षते । न च तन्मात्रापेक्षत्वमस्य सामर्थ्यमुपहन्तीति युक्तं बहिरङ्गानपेक्षणादित्यभिधीयते एवाणप्रत्यय इति न दोषः ।।१००६।
[क० च०] कर्मणि० । कर्म तावत् त्रिविधम् - निर्व] विकार्यं प्राप्यं च । तथा चोक्तम् -
यदसज्जायते पूर्वं (सद् वा) जन्मना यत् प्रकाशते । तनिर्वयं विकार्यं च कर्म द्वेधा व्यवस्थितम् ।।
(वा० प० ३।७।४९)। अस्यायमर्थः - यत् पूर्वमसत् पश्चाज्जायते तनिर्वर्त्यम् । जन्मना यत् प्रकाशते यदाविर्भवति यल्लब्धसत्ताकमेव वस्तु अवस्थान्तरमापद्यते तद् विकार्यम् । विकार्य च कर्म द्वेधा व्यवस्थितम् । तथा चोक्तम् –
प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्टादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ।।
(वा० प० ३७।५०)। प्राप्यं च -
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते ।।
(वा० प० ३।७।५१)।