________________
अथ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः १००६. कर्मण्यण् [४।३।१]
[सूत्रार्थ]
‘कर्म’ कारक के उपपद में रहने पर धातु से 'अण्' प्रत्यय होता है ||१००६। [दु० वृ० ]
कर्मसंज्ञोपपदे धातोरण् भवति । कुम्भं करोतीति कुम्भकारः । एवं काण्डकार:, शरलाव:, वेदाध्यायः । ‘आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छति' इत्यनभिधानाद् वाक्यमेव । महान्तं घटं करोतीति सापेक्षत्वात् । अघटं घटं करोतीति 'घटीकारः' इति च्व्यन्ते प्रागवस्थार्थमात्रापेक्षे त्वण् अभिधीयते ॥ १००६ |
[दु० टी० ]
कर्म०। निरुपपदविधयस्तावदुक्ताः, सम्प्रति सोपपदविधानार्थमुपक्रमते । कर्मशब्दः स्वेपवचनः क्रियावचनोऽप्यस्ति । तत्र 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति न्यायादुपकारि पदं यत् क्रियायास्तदुपपदम् । न च क्रियाया उपपदत्वम् अन्वर्थात् पश्यति करोतीति कुतः प्राप्तिरित्याह कर्मसंज्ञोपपदे इति । त्रिविधेऽपि कर्मण्युदाहरति। क्वचित् प्राप्ये कर्मणि दृश्यते इत्याह आदित्यमित्यादि । अन्यस्तु प्राप्ये कर्मणि न भवतीति परिसञ्चष्टे । कथं वेदाध्यायः इति चेद् एवं मन्यते वेदानामपि विकाराधानमध्ययनेन क्रियते एव । (कथं) यद्यपि 'वेदा नित्या:' तथाप्यधीयानेन विप्रेण वेदाः अभिव्यज्यन्ते इति अभिव्यक्तिविकारो वेदानामध्ययनेन क्रियते इति ।
-
एवं काण्डादीनामन्यथा व्यवस्थानं धारणादिभिरिति सर्वत्रैव विकारः । अस्मिन् पक्षे निर्वर्त्यविकार्ययोरेवाणिति । आदित्यादीनां च विकाराभावान्न भवतीति। महान्तमित्यादि। सापेक्षस्योपपदत्वमेव नास्ति अपेक्षते हि घटो महत्त्वमिति भावः । न च सगुणक एव घटः करोतिक्रियायाः कर्मेति साध्यसाधनसम्बन्धोऽस्तीति धात्वनुवृत्त्या वा धात्वर्थो गृह्यते, क्रिया च साध्या साधनं प्रति नियमाद् योग्यसम्बन्धमेव कर्माक्षिपतीति नासम्बन्धे कर्मण्यणिति। अघटमित्यादि । च्व्यन्तमतोऽनपेक्षमिति प्राप्तिर्मन्यते । प्रकृतिविवक्षायान्तु अन्तर्भावयन्नपि तमुभयं सम्बन्धमनपेक्षायामेव प्रकृतिमन्तर्भावयति, तदा मृदं घटीकरोतीति भवितव्यम् । कथमिह 'काशकटीकारः' इति भाष्यकारवचनम् । काशानां कटीकार इति षष्ठीसमासः। अन्यस्तु मन्यते यदा प्रकृतिः कर्मतया समाधीयते तदा भवितव्यम्। यथा मृदं कुम्भीकरोतीति 'मृत्कुम्भीकारः' इति, तथा काशान् कटीकारः । अन्यस्तु च्व्यन्तादनुत्पत्तिमेव वर्णयति, यथा पुत्रीयतीत्येवमादिष्वादेशसम्बन्धा अपि प्रकृत्यर्थे गुणीभवन्तः क्रियाभूयं गच्छन्ति, तथा च्व्यन्ता अपि अभूततद्भावरूपायां क्रियायां वर्तन्ते इत्याह-अभिधीयते इत्यादि । एतदभिधानात् प्रतिपत्तव्यमित्यर्थः । । १००६।