________________
२३०
कातन्त्रव्याकरणम्
इस कर्म कारक के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'अण्' प्रत्यय, ऋकार को वृद्धि, समास, लिङ्गसञ्ज्ञा, विभक्तिलुक तथा विभक्तिकार्य।
२. काण्डकारः। काण्ड + अम् + कृ + अण् + सि । काण्डं करोति । ‘काण्डम्' इस कर्मकारक के उपपद में रहने पर अण् प्रत्यय आदि पूर्ववत् ।
३. शरलावः। शर + शस् + लू + अण् + सि । शरान् लुनाति । 'शरान्' इस कर्मकारक के उपपद में रहने पर 'लूञ् छेदने' (८१९) धातु से अण् प्रत्यय आदि कार्य प्राय: पूर्ववत् ।
४. वेदाध्यायः। वेद + शस् + अधि - इङ् + अण् + सि । वेदान् अधीते। 'वेदान' इस कर्मकारक के उपपद में रहने पर 'अधि' पूर्वक 'इङ् अध्ययने' (२।५६) धातु से 'अण्' प्रत्यय आदि कार्य प्राय: पूर्ववत् ।।१००६।
१००७. हावामश्च[४।३।२] [सूत्रार्थ
कर्म कारक के उपपद में रहने पर 'हृञ् - वेञ् - मा' धातुओं से 'अण्' प्रत्यय होता है ।।१००७।
[दु० वृ०]
एभ्यः कर्मण्युपपदेऽण् भवति । कापवादः । स्वर्गह्वायः । तन्तुवायः ।धान्यमाय:। वातिरकर्मकः । मीनातिमिनोत्योः के बुद्धिस्थे मारूपाभावः ॥१००७।
[दु० टी०]
ह्वा०। तन्तुं वयतीति 'वेञ् तन्तुसन्ताने' (१।६११) इति। वातिरकर्मक इति 'वा गतिगन्धनयोः' (२।१७) इत्यस्य न ग्रहणमित्यर्थः। धान्यं मिमीते माति वा 'माङ् माने, मा माने (२।८६, २६) अनयोरेव ग्रहणं कथमित्याह – मीनातीत्यादि ।।१००७।
[वि० प०]
ह्वा०। कापवाद इति। "आतोऽनुपसर्गात् कः' (४।३।४) इत्यनेन प्राप्तस्य कस्यापवादोऽयमित्यर्थः। वातिरकर्मक इति । 'वा गतिगन्धनयोः' (२।१७) इत्ययमकर्मकः। तेनास्य कर्मोपपदत्वमसङ्गतमिति। तन्तुं वयते इति। 'वेञ् तन्तुसन्ताने' (१।६११) एव गृह्यते इति भावः। तथा धान्यं माति, मिमीते, मयते वा धान्यमाय इति। ‘मा माने, माङ् माने, मेङ् प्रतिदाने' (२।२६, ८६; १।४६२) इत्येतेषां ग्रहणम्, मारूपस्य सम्भवात्। यद्येवं “मीनातिमिनोतिदीङां गुणवृद्धिस्थाने" (३।४।२२) इत्यणि वृद्धिविषयत्वादात्वे मारूपमस्ति तत् कथं न भवतीत्याह – मीनातीत्यादि। के हि प्राप्तेऽणुच्यते तस्मिंस्तु बुद्धिस्थे न मारूपमस्ति। कानुबन्धतया गुणवृद्धिविष लाभावात् पूर्वेण त्वनयोरण भवत्येवेति।।१००७।