________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
९९८. ग्रहेर्वा [४ । २।५९]
[सूत्रार्थ ]
'ग्रह' धातु से वैकल्पिक 'ण' प्रत्यय होता है || ९९८ ।
[दु०वृ०]
ग्रहैर्वा णो भवति । ग्राहो जलचरः, ग्रहः सूर्यादिः ।। ९९८।
[दु० टी० ]
ग्रहे । ग्रहेर्वेत्यादि । व्यवस्थितवास्मरणादर्थान्तरे विकल्प इति भावः । अत एव "वा ज्वलादिदुनीभुवो णः " (४/२/५५ ) इत्यत्र नोच्यते ॥ ९९८ ॥
२१९
[वि० प० ]
ग्रहेः । वा ज्वलादीत्यादौ ग्रहिं पठित्वा इदं सूत्रं न कर्तव्यमिति न देश्यम्, इह व्यवस्थितविभाषेयम्। तेनार्थभेदेन विकल्प इत्याह ग्राहो जलचर इति ॥९९८॥
[क० च०]
ग्रहः । पञ्जिका वा ज्वलादौ ग्रहिं पठित्वेति । ननु " गेहे त्वक्" (४/२/६०) इत्यत्र कथं ग्रहेरनुवृत्तिस्तदा भविष्यति ? सत्यम्, समाङोः स्रुवो ण इत्यनन्तरम् अवे ह्रसोस्तदनन्तरं दिहिलिहीत्यादि सूत्रम्, तदनन्तरं “वा ज्वलादिदुनीभुवो ग्रहेः” इति कृते भिन्नविभक्तिनिर्देशाद् ग्रहेरेवानुवृत्तिः । न च " गेहे त्वक्" (४।२।६० ) इत्यत्र वानुवृत्तिः कथन्न स्याद् इति वाच्यम्, अधिकारस्येष्टविषयत्वात् । स्थितिपक्षेऽप्येतदवश्यमङ्गीकर्तव्यम् ||९९८ |
[समीक्षा]
-
―
'ग्रहः, ग्राहः' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में विकल्प से 'ण' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है "विभाषा ग्रहः " (अ० ३।१।१४३) । इस प्रकार उभयत्र पूर्ण समानता ही है ।
[विशेष वचन ]
१. अधिकारस्येष्टविषयत्वात् (क० च०) । [रूपसिद्धि]
१. ग्राहः, ग्रहः। ग्रह् + ण, अच् + सि । 'ग्रह उपादाने' (८/१४) धातु से प्रकृत सूत्र द्वारा वैकल्पिक 'ण' प्रत्यय, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु" (३।६।५) से उपधादीर्घ तथा विभक्तिकार्य । ण-प्रत्यय के अभावपक्ष में "अच् पचादिभ्यश्च” (४।२।४८ ) से अच् प्रत्यय
ग्रहः ।। ९९८ ।
९९९. गेहे त्वक् [४।२ । ६० ]
-
[सूत्रार्थ]
गृह अर्थ के विवक्षित होने पर 'ग्रह' धातु से 'अक्' प्रत्यय होता है ।। ९९९ । [दु०वृ०]
ग्रहेऽभिधेये त्वग् भवति । गृह्णातीति गृहम् गृहाः || ९९९ ।
[दु० टी०]
गेहे ० । गेहेऽभिधेये इति । गेहे कर्तरीत्यर्थः । गेहशब्दो वेश्मवचनस्तद्योगात् स्त्रीष्वपि वर्तमानो गृह्यते इत्युदाहरति । गृहम् इति पुरुषेणोपार्जितं धनं गृह्णातीत्यर्थः ।