________________
२१२
कातन्त्रव्याकरणम्
२. सुम्लः। सु + म्लै - ड + सि । 'सु' उपसर्गपूर्वक ‘म्ले गात्रविनामे' (१।२५२) से 'ड' प्रत्यय आदि कार्य पूर्ववत् ।
३. प्रह्वः । प्र - हृञ् + ड + सि । 'प्र' उपसर्गपूर्वक 'हृञ् स्पर्धायां शब्दे च' (१।६१३) धातु से 'ड' प्रत्यय आदि कार्य पूर्ववत् ।।९९१।
९९२. धेड्दृशिपाघ्राध्मः शः [४। २।५३] [सूत्रार्थ
उपसर्ग के उपपद में रहने पर 'धेट पा पाने' (१।२६४), 'दृशिर् प्रेक्षणे' (१।२८९), 'पा पाने' (१।२६४), 'घ्रा गन्धोपादाने' (१।२६५) तथा ‘ध्मा शब्दाग्निसंयोगयोः' (१।२६६) धातुओं से 'श' प्रत्यय होता है ।।९९२।
[दु०वृ०]
उपसर्गे उपपदे एभ्यः शो भवति। उद्धयः, उत्पश्य:, उत्पिब:। साहचर्यात् पिबतेः। धेटष्टकार: सुखार्थः। उज्जिघ्रः, उद्धम:। कथं पश्य:? अन्यत्रापीति वचनात्। तथा व्याजिघ्रतीति व्याघ्रः ।।९९२।
[दु० टी०]
धेड्। केचित् पश्य इति निरुपसर्गप्रयोगं नादरयन्ति। 'व्याघ्रः' इति सज्ञायामित्यर्थः।।९९२।
[वि०प०]
धेड्०। शानुबन्धत्वात् “सार्वधातुकवच्छे'' (४।१।५) इति । अन्-विकरणे कृते दृश्ये: पश्यः इत्यादिकं प्रवर्तते । व्याघ्रः इति । शप्रत्ययबाधितोऽपि पूर्वेण डप्रत्यय इत्यर्थः ।।९९२।
[क० च०]
धेड्० । साहचर्यादिति । 'पा' इत्युक्तेऽपि न सामान्यतो ग्रहणं किन्तु पिबतेर्भावादिकस्यैव ग्रहणम्, दृश्यादीनां साहचर्यादित्यर्थः । अथ 'पै ओ वै शोषणे' (१।२६१) इत्यस्यापि भौवादिकस्य कथं न ग्रहणम् ? सत्यम् । दृश्यादीनामादेशवतां साहचर्यात् । पातिरप्यादेशवानेव स च पिबतिरेव नान्यः । ननु धेदृशीत्युच्यतां किं धेटष्टकारेणेत्याह – धेटष्टकार इति । ननु अवयवकृतं लिङ्ग समुदायस्व विशेषणं कथन भवति । यथा शुनीस्तनेत्यत्र शुनीन्धयी, स्तनन्धयोति । तथा च शुनिन्धयीत्यादिवत्।
अत्रापि धेटष्टकारो नदाद्यर्थ इति उद्धयीति ? सत्यम् । आलोपे हि सति निमित्तं न तु निमित्ते आलोप इति कार्यदर्शनादेव कारणमनुमीयते । अत्र कार्यं नास्तीति किं कारणानुमानेन? यदि उद्धयोति प्रयोगो दृश्यते, तदा नदादेराकृतिगणत्वादेव साध्यासाद्धरिति वृत्तिकृतो हृदयम् ।।९९२।