________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
२११ ९९१. उपसर्गे त्वातो डः [४।२।५२] [सूत्रार्थ उपसर्ग के उपपद में रहने पर आकारान्त धातु से 'ड' प्रत्यय होता है ।।९९१। [दु० वृ०]
उपसर्गे उपपदे आकारान्ताद् धातो? भवति । सुग्ल:, सुम्लः, प्रह्वः । डे सति सम्प्रसारणम् उर् च न स्यात् । गोसन्दायः इति । परत्वादण् । णस्यापवादोऽयम् ।।९९१।
[दु० टी०]
उप०। उपसर्ग इति किम्? दाता। यदि पुनरिह कोऽधिक्रियते, तदा यजादित्वाद् ह्वयतेः सम्प्रसारणम्। तथा प्रज्य इति ग्रहादित्वादित्याह-डे सतीत्यादि। उपदाय: इति। दीङ: प्रागात्वे सति आतो णो भवति, अभिधानात्। डकारोऽन्त्यस्वरादिलोपार्थः।।९९१।
[वि०प०]
उप०। यदि पुन: क-प्रत्यय एवाधिक्रियते तदा हयते: सम्प्रसारणं स्यात्। न च तस्मिन् कृते पुनरसवणे वत्वप्राप्तिः। अगुणे परत्वादुवादेश एव स्यादित्याह-डे सतीति। उविति। अध्याहृत्य चकारपदं सम्प्रसारणम् उव् च न स्यादित्यर्थः। णस्येति। "दिहिलिहि०" (४।२।५८) इत्यादिना प्राप्तस्येत्यर्थः।।९९१।
[क० च०]
उप०। प्रहः इति। ननु क-प्रत्ययाधिकाराद् "आलोपोऽसार्वधातुके" (३।४।२७) इत्यालोपे सिद्धं सुग्ल इत्यादि पदमित्याह-डे सतीत्यादि। के प्रत्यये सति प्रहः, प्रज्य: इत्यादि न सिध्यति। नन् सन्ददातीति सन्दः, गवां सन्दो गोसन्दः इति भवति, तर्हि के प्रत्यये सति कथमिति येनेदमुच्यते? सत्यम्। "अन्यतोऽपि च" (४।३।४९) इति डप्रत्ययेन भवितव्यमित्यभिप्रायः। यथा 'ब्रह्मज्य:, मित्रह्वः' इति। क-प्रत्ययेऽनिष्टं स्याद् इति डविधानम्।।९९१।
[समीक्षा
'सुग्ल:, सुम्लः, प्रस्थः' इत्यादि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'ड' प्रत्यय किया है, जबकि पाणिनि ने 'क' प्रत्यय। पाणिनि का सूत्र है- “आतश्चोपसर्गे" (अ० ३।१।१३६)। अत: अनुबन्धभेद को छोड़कर उभयत्र समानता ही है ।
[विशेष वचन] १. डकारोऽन्त्यस्वरादिलोपार्थः (दु० टी०)। २. कप्रत्ययेऽनिष्टं स्यादिति डविधानम् (क० च०) । [रूपसिद्धि
१. सुग्लः । सु + ग्ला + ड + सि । 'सु' उपसर्गपूर्वक 'ग्लै हर्षक्षये' (१।२५१) धातु से “सन्ध्यक्षरान्तानामाकारोऽविकरणे' (३।४।२०) सूत्र द्वारा ऐकार को आकारादेश, प्रकृत सूत्र द्वारा 'ड' प्रत्यय, डकारानुबन्ध के बल पर आकार का लोप तथा विभक्तिकार्य ।