________________
२०६
कातन्त्रव्याकरणम्
धातव इत्यादि । सर्वशब्दश्चात्र सङ्कोचवृत्तिः “नाम्युपध०" (४।२।५१) इत्यादीनां कप्रत्ययादिविषयत्वात् । कश्चिद् आह – एतदुक्तं भवति सूत्रे ‘पच' इत्यजन्तनिर्देश: पचादिशब्देन पचादिनामगण उच्यते, तत्र च धातोरित्यधिकारान्नाम्नः परोऽच् न प्राप्नोतीति तेभ्यो नामगणेभ्यः पचादिधातुमुपेत्य तस्मादच् क्रियते इति, तन्न । नन्द्यादेरित्यत्र तथासम्भवात् । वस्तुतस्तु पचादिनामगणे दृष्टा ये धातवस्त एवोद्भत्यात्र निश्यिन्ते इति पञ्जिका। एवमित्यादीति । 'देहः, श्लेषः' इति पाठोऽशुद्ध एव लक्ष्यते, "दिहिलिहि०" (४।२।५८) इत्यादिना णप्रत्ययस्य विषयत्वात् कप्रत्यय एवास्ति बाधकः, यतो नच णप्रत्ययेऽच्प्रत्यये वा विशेषोऽस्ति, तेन णप्रत्ययस्य विषयेऽप्यच् प्रत्यय इति वाच्यम्, विशेषाभावात् । कश्चित् प्रयोजनाभावेऽपि णप्रत्ययविषये पचादिग्रहणादस्य विषयो दर्शित इत्याह – नन्दिवासीत्यादि ।।९८७।
[समीक्षा]
पाणिनि ने पचादि धातुओं से अच् प्रत्यय, नन्द्यादि से ल्यु तथा ग्रह्यादि से णिनि प्रत्यय का विधान एक ही सूत्र द्वारा किया है-“नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" (अ० ३।१।१३४), परन्तु कातन्त्रकार ने एतदर्थ तीन सूत्र बनाए हैं, उनमें से अच्प्रत्ययविधायक यह प्रथम सूत्र है। व्याख्याकारों ने कहा है कि एक सूत्र करने से प्रतिपत्ति ज्ञानगौरव उपस्थित होगा, वह न हो इसलिए ३ सूत्र पृथक् पृथक् बनाए गए हैं"पचनन्दग्रहादिभ्योऽज्युणिन:-इत्येकयोगे प्रतिपत्तिगौरवं स्यात्' (दु०टी० ४।२।५०) ।
[विशेषवचन]
१. पचादिग्रहणं बाधकबाधनार्थम् , तेन 'श्वपचः, जारभरः' इत्यण् न स्यात् (दु०वृ०)।
२. इह ....... अच्प्रत्ययान्ता एव नामगणनिर्दिष्टा गृह्यन्ते, तेभ्यश्चापोद्धृत्य धातुप्रकृतयो निर्दिश्यन्ते (वि० प०) ।
३. सर्वशब्दश्चात्र सङ्कोचवृत्तिः (क० च०) । [रूपसिद्धि
१. पचः। पच् + अच् - सि । पचति । 'डु पचष् पाके' (१६०३) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, 'च' अनुबन्ध का प्रयोगाभाव, ‘पच' की लिङ्गसंज्ञा, 'सि' प्रत्यय तथा "रेफसोर्विसर्जनीयः” (२।३।६३) से सकार को विसर्गादेश ।।
२. पठः। पठ् + अच् + सि । पठति । ‘पठ व्यक्तायां वाचि' (१।१११) धातु से प्रकृत सूत्र द्वारा 'अच' प्रत्यय आदि कार्य पूर्ववत् ।
३. भवः। भू + अच् + सि । भवति । 'भू सत्तायाम्' (१।१) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, गुण, ओकार को 'अन्' आदेश तथा विभक्तिकार्य ।।९८७।