SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् सहासम्मतस्यान्तेवासिनो विकल्पोऽयुक्त इति सम्मतत्वमन्तेवासिनः । तथाहि विद्याप्रशंसापरम् एतद् वचनम् इत्याह-अन्यत्रेति । कृतोऽपि बहुलं भवन्तीति सम्मतेऽपि स्यात् । अथवा सम्माननं सम्मतमिच्छा संवापोऽभिलाषः स नास्त्यस्येति असम्मतः प्रणाय्योऽन्तेवासिविषये आत्मनः इच्छाभावात् प्रणाय्यश्चौर इति परेषां तत्र सम्मताभावात् ॥९७८। १९८ [वि० प० ] प्राङो ० | त्रयोऽग्नयः - गार्हपत्यो दक्षिणाग्निराहवनीयश्च । तत्र गार्हपत्योऽग्निररणिनिर्मन्थनादुत्पन्नोऽनिर्वाणतया नित्य एव । इतरौ तु गार्हपत्यादुद्धृतौ वैश्यकुलाद् भ्राष्ट्राद् वा। आभीक्ष्ण्यप्रणीयमानत्वादनित्यौ भवतः । रूढितश्च नाहवनीयो नाप्यनित्यो घटादिरानाय्य इत्याह— आनाय्यो दक्षिणाग्निरित्यादि । गार्हपत्यादित्युपलक्षणम्। गार्हपत्यादेरित्यर्थः। कथमित्यादि । न खल्वन्यथा ब्रह्मप्रकाशनं सम्भवतीति अन्तेवासिनः सम्मतत्वं गम्यते, तत् कथमसौ प्रणाय्य इति देश्यार्थः ।। ९७८ । [क० च०] प्राङो ० । ननु अनित्य इत्युक्ते दक्षिणाग्निरेव कथम् अवगम्यते आहवनीयो घटपटादयो वा कथं न प्रतीयन्ते इत्याह-- स चानित्य इति । पञ्जिका- अरणिः काष्ठविशेषस्तस्य संघर्षणाज्जायते, अथ यदि जायते तत् कथं नित्य इत्याह-अनिर्वाणतयेति । उद्धृताविति। अग्न्युद्धरणशालिनो वैश्यकुलादित्यर्थः । अथ यदि त्रिभ्यः सकाशादनयोरुद्धरणमित्युच्यते, तत् कथं गार्हपत्यादित्युक्तमित्याह-गार्हपत्यादिति ।। ९७८ । [समीक्षा] 'आनाय्य:- प्रणाय्य:' शब्दरूप 'अनित्य- असंमत' अर्थों में दोनों ही आचार्यों ने सिद्ध किए हैं। पाणिनि के पृथक् पृथक् दो सूत्र हैं— “ आनाय्योऽनित्ये, प्रणाय्योऽसंमतौ” (अ० ३।१।१२६,१२८ ) । अन्तर यह है कि पाणिनि इन्हें निपातन से सिद्ध करते हैं, जबकि कातन्त्रकार ने साक्षात् घ्यण् प्रत्यय का विधान किया है। पाणिनीय सूत्रगौरव को छोड़कर अन्य तो प्रायः उभयत्र समानता ही है । [विशेष वचन ] १. स चानित्यो रूढित: सिद्ध एव (दु० वृ०)। २. ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्याय चान्तेवासिने (दु० वृ०)। ३. तत्र सूत्रकारेण न कश्चिद् विशेष उपात्त: (दु० टी० ) | ४. पदकारः कथयति-दक्षिणाग्निरिति वक्तव्यम् (दु० टी० ) | [रूपसिद्धि] १. प्रणाय्य चौरः । प्र + नी + घ्यण् + सि। 'प्र' उपसर्गपूर्वक ' णीञ् प्रापणे' ( १/६००) धातु से प्रकृत सूत्र द्वारा 'असंमत' अर्थ में 'घ्यण्' प्रत्यय, 'घ् - ण् अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, वृद्धि, स्वरवद्भाव से ऐकार को आय् आदेश, णत्व तथा विभक्तिकार्य।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy