________________
चातुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
१९७ शब्दों की सिद्धि की है । अनुबन्धों की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार की गई है । सामान्यतया उभयत्र समानता है।
[विशेष वचन] १. उपचाराद् ऋत्विग्विशेषेऽपि वर्तते (दु० वृ०)। २. सामिधेन्यध्ययनयोगाद् ऋत्विजोऽपि भण्यन्ते इत्यर्थः (दु० टी०)। ३. सामिधेनीशब्द: ऋग्विशेषस्य वाचकः (वि० प०)। । [रूपसिद्धि]
१. पाय्यं मानम् । पा + घ्यण् + सि। 'पा पाने; पा रक्षणे' (१।२६४,२।२१) धातु से प्रकृत सूत्र द्वारा 'घ्यण' प्रत्यय, "आयिरिच्यादन्तानाम्' (३।६।२०) से आकार को 'आय' आदेश तथा विभक्तिकार्य । यान अर्थ से अन्यत्र ‘पेयम्' शब्दरूप।
२. धाय्या सामिधेनी। धा + घ्यण् + आ + सि। 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से 'घ्यण' प्रत्यय आदि कार्य प्रायः पूर्ववत् ।।९७७।
९७८. प्राङोर्नियोऽसम्मतानित्ययोः स्वरवत् [४।२।३९] [सूत्रार्थ
असम्मत तथा अनित्य अर्थ की विवक्षा में 'प्र-आङ्' उपसर्गपूर्वक 'नी' (णीञ् प्रापणे १।६००) धातु से घ्यण् प्रत्यय होता है और उसका स्वरवद्भाव भी होता है।।९७८।
[दु० वृ०]
प्राङोरुपपदयोर्नियो धातोरसम्मतानित्ययोरर्थयोर्यथासंख्यं घ्यण भवति, स च स्वरवत् । प्रणाय्यश्चौरः, असम्मत इत्यर्थः। आनाय्यो दक्षिणाग्निः। यो गार्हपत्यादानीय प्रणीयते स चानित्यो रूढितः सिद्धः। कथं ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्याय चान्तेवासिने इति ? अन्यत्रापीति वचनात् ।।९७८।
[दु० टी०] ___प्राडोः। सम्मतोऽभिमतस्ततोऽन्योऽसम्मत इत्यर्थः। त्रयोऽग्नयः-गार्हपत्यो दक्षिणाग्निराहवनीय इति। तत्र गार्हपत्योऽरणिनिर्मन्थनानित्यो भवति, न तस्यानाय्य इति व्यपदेशः, इतरौ तु कादाचित्को गार्हपत्यादुद्भूतौ वैश्यकुलाद् भ्राष्ट्राद् वा क्रियाविशेषापेक्षयाऽनियतयोनी, तत्र सूत्रकारेण न कश्चिद् विशेष उपात्त इति। पदकारः कथयति-दक्षिणाग्निरिति वक्तव्यम्। गार्हपत्याधुपलक्षणं गार्हपत्यादेरिति भावः। स चेत्यादि न वक्तव्यम्, रूढितः रूढिवशाल्लभ्यते इत्यर्थः।
श्लोकवार्तिककारस्तु-एकयोनाविति वक्तव्यम् इत्यपरं विषयं दर्शयति। एकयोनित्वं चाहवनीयेन सहान्यत्र दक्षिणाग्नेरानेय इति भवति। आनाय्यो गोधुगिति तु केषाञ्चिदुदाहरणं तेऽनित्यपर्यायमेव नान्यं मन्यन्ते। कथमित्यादि। ज्योष्ठेन प्रशस्योन पुत्रेण