________________
१९६
कातन्त्रव्याकरणम्
[समीक्षा]
'नाव्यम्, लाव्यम्' इत्यादि शब्दरूप दोनों ही आचार्यों ने घ्यण् ण्यत् प्रत्ययों से सिद्ध किए हैं। पाणिनि का सूत्र है- “ओरावश्यके" (अ०३ । १ । १२५)। अतः उभयत्र समानता ही है।
—
[रूपसिद्धि]
+
१. नाव्यम् । नु घ्यण् + सि। 'णु स्तुतौ' (२७) धातु से प्रकृत सूत्र द्वारा 'घ्यण्' प्रत्यय, 'घ् - ण् ' अनुबन्धों का प्रयोगाभाव, उकार को वृद्धि औ, 'औ' को 'आव्' आदेश तथा विभक्तिकार्य ।
२. लाव्यम्। लू + घ्यण् + सि। 'लूञ् छेदने' (८/९) धातु से प्रकृत सूत्र द्वारा 'घ्यण्' प्रत्यय आदि कार्य पूर्ववत् ॥९७६ ।
९७७. पाधोर्मानसामिधेन्योः [ ४ । २ । ३८ ]
[सूत्रार्थ]
'परिमाण - सामिधेनी' अर्थों में क्रमशः 'पाधा' धातुओं से 'घ्यण्' प्रत्यय होता है । । ९७७ ।
[दु० वृ० ]
'पा-धा' इत्येतयोर्मानसामिधेन्योर्यथासङ्ख्यं घ्यण् भवति । पाय्यं मानम् । वचनात् स्वार्थ त्यजति, पेयमन्यत् । दधात्यग्निमिति धाय्या सामिधेनी । समिदाधानमन्त्र इति। उपचाराद् ऋत्विग्विशेषेऽपि वर्तते - धाय्याः शंसन्ति। धेयमन्यत् ॥ ९७७| [दु० टी० ]
पाधो० । मीयते येन तन्मानम् । यथार्थे पाय्यमित्याह — वचनादित्यादि । पिबतिः पानार्थम्, पातिर्वा रक्षणार्थं त्यजतीति । दधात्यग्निमित्यादि । समिदाधानस्य निमित्तम् ऋगित्यर्थः। उपचारादित्यादि । सामिधेन्यध्ययनयोगाद् ऋत्विजोऽपि भण्यन्ते इत्यर्थः । ९७७ । [वि० प० ]
पाधोः । पाय्यमिति । इज्वद्भावादायिरादेशः । सामिधेनीशब्दः ऋग्विशेषस्य वाचक:, तत्रैव धाय्येति न सर्वा ऋक् सामिधेन्युच्यते, किन्तर्हि काचिदेव इत्याह-समिदाधानमन्त्र इति । अग्निमुखे समिध आधीयन्ते येन मन्त्रेण सा ऋक् । उपचारादिति । सामिधेन्यध्ययनयोगादुपचारः प्रवर्तते । । ९७७ ।।
[समीक्षा]
'पाय्यम् - धाय्या' शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में 'य' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु' (अ० ३ | १ | १२९ ) । अन्तर यह है कि कातन्त्रकार ने साक्षात् 'घ्यण्' प्रत्यय का विधान किया है, जबकि पाणिनि ने निपातन से ण्यत्प्रत्ययान्त इन