________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
१९९ २. आनाय्यः। आ + नी + घ्यण् + सि। 'आङ्' उपसर्गपूर्वक ‘णीञ् प्रापणे' (१।६००) धातु से 'घ्यण' प्रत्यय आदि कार्य पूर्ववत् ।।९७८।
९७९. सञ्चिकुण्डपः क्रतौ [४।२।४०] [सूत्रार्थ]
'यज्ञ' अर्थ की विवक्षा में 'सम्' उपसर्गपूर्वक 'चिञ् चयने' (४५) तथा ‘कुण्ड' पूर्वक ‘पा पाने' (१।२६४) धातु से 'घ्यण' प्रत्यय होता है।।९७९।
[दु० वृ०]
संपूर्वाच्चिनोतेः कुण्डपूर्वाच्च पिबतेः क्रतावभिधेये घ्यण् भवति, स च स्वरवत्। संचीयतेऽसौ संचाय्यः क्रतुः। कुण्डै: पीयतेऽसौ इति कुण्डपाय्यः क्रतुः। ससोमको हि यागः क्रतुः, अर्थात् सोमः पीयतेऽस्मिन्नित्यभिधानादधिकरणे वा ॥९७९।
[दु० टी०] सञ्चि०। अभिधानादित्यादि। कुण्डै: पीयतेऽस्मिन् सोमः इति कुण्डपाय्यः।।९७९। [वि. पं०]
सञ्चि०। कुण्डै: पीयते इति कथमेतद् ., यावता यागस्य क्रियात्मकत्वात् पातमयोग्य इत्याह-ससोमको हीति। अथवा "भावकर्मणोः कृत्यक्तखलाः " (४।६।४७) इत्येतदिह न वर्तते इत्याह-अभिधानादधिकरणे वेति। कुण्डै: पीयतेऽस्मिन् सोम: इत्यर्थः।।९७९।
[क० च०]
सञ्चि०।. ससोमक इति हि यदत्र. सोमसहितो यागः क्रतुशब्दवाच्यः। अतो .यागस्य क्रियायाः पातुमयोग्यत्वाद् अर्थात् सोमः पीयते इति गम्यते इत्यर्थः। पक्षान्तरमाहअभिधानादिति ।।९७९।
[समीक्षा]
क्रत अर्थ में ‘सञ्चाय्यः, कुण्डपाय्यः' शब्दरूपों की सिद्धि दोनों व्याकरणों में की गई है। पाणिनि का सूत्र है- "क्रतौ कुण्डपाय्यसञ्चाय्यौ' (अ० ३।१।१३०)। अन्तर यह है कि पाणिनि इन शब्दों को निपातनविधि से सिद्ध करते हैं, परन्तु कातन्त्रकार ने इनकी सिद्धि के लिए साक्षात् 'घ्यण' प्रत्यय का विधान किया है। सामान्यतया उभयत्र प्राय: समानता ही है।
[रूपसिद्धि]
१. सञ्चाय्यः क्रतुः। सम् + चिञ् + घ्यण् + सि। सञ्चीयतेऽसौ। 'सम्' उपसर्गपूर्वक 'चिञ् चयने' (४।५) धातु से प्रकृत सूत्र द्वारा घ्यण प्रत्यय, स्वरवद्भाव, इकार को वृद्धि - ऐकार, आयादेश तथा विभक्तिकार्य।
२. कुण्डपाय्यः क्रतुः। कुण्ड + पा + घ्यण् + सि। कुण्डै: पीयतेऽसौ। 'कुण्ड' उपपदपूर्वक 'पा पाने' (१।२६४) धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् ॥९७९।