________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
१९३ अथ पण्णिति निर्दिश्यताम् , किं घकारेण तर्हि आख्यातिकेन यणा सह समानत्वे कार्यमित्यत्र "यणाशिषोर्ये' (३।६।१३) इतीकारागम: स्यात् । तथा कृतमित्यादौ "के यण्वच्च योक्तवर्जम्' (४।१।७) इत्यनेन एतद् यण्युक्तं वृद्ध्यादिकमप्यतिदिष्टं स्यात्। नैवम् , न तावद् "यणाशिषोर्ये' (३।६।१३) इतीकारागम: आशिषि आख्यातिकस्य साहचर्याद यण्णपि तदेव गृह्यते, नापि "के यण्वच्च०" (४।१।७) इत्यादिनातिदेशः।
योक्तन्तावदाख्यातिकमेव सम्भवति तत्साहचर्यादादेशोऽपि तस्यैव यणः। तर्हि 'वाक्यम्, योग्यम् ' इत्यादौ कथं कत्वगत्वे स्याताम्, घानुबन्धत्वाभावादस्य? सत्यम्, "चजोः कगौ" (४।६।५६) इत्यत्र यण्ग्रहणं "घ्यण्यावश्यके" (४।६।६४) इत्यत्र यण्यावश्यके इति क्रियताम् । अन्ये तु आवश्यके कत्वगत्वे। तत्र यदि यणि तेन कत्वादिस्तत्कथं तयोनिषेधो निषेधाद विधिरिति योगो भविष्यति। यथा "ध्याप्योः" (४।१।५४) इत्यत्र वचनात् सम्प्रसारणं सिद्धम् । नैवम् , तथापि आख्यातिकेन यणा सहास्य विशेषाभावादवश्यं 'पच्यते' इत्यादावपि कत्वगत्वे स्यातामिति। तेन सह तुल्यत्वव्याघाताय घकारः क्रियते इत्याह-घकारः इति।
समानस्य सदृशस्य भावः, सामान्यं तुल्यत्वम् , अर्थाद् आख्यातिकेन यणा सह। तर्हि कत्व-गत्वलक्षणस्य कार्यस्येत्यादि पञ्जिकापङ्क्तिः कथं सङ्गच्छते ? उच्यते - कत्वगत्वे लक्ष्येते येन तत् कत्वगत्वलक्षणं यण्यावश्यके इति सूत्रं तस्य कार्यस्य कत्वगत्वलक्षणस्य यो विशेषः कृद् यणि भवति, आख्यातिके न भवति। तत्सम्पादनाथों घकार इत्यर्थः। अथ प्रकरणं हि प्रकरणस्य नियामकम् अत: कृद्यण्येव कत्वगत्वे भविष्यतः, नाख्यातिके ? सत्यम् , तदा सुखार्थम् ।।९७४।
[समीक्षा]
'कार्यम् , वाक्यम् , पाक्यम् ' इत्यादि शब्दरूप दोनों ही व्याकरणों में घ्यणण्यत् प्रत्ययों से सिद्ध किए गए हैं। पाणिनि का सूत्र है-"ऋहलोय॑त् " (अ० ३।१।१२४)। 'घ् - त्' अनुबन्धों की भिन्नता अपने-अपने व्याकरण की प्रक्रिया के अनुसार है । अत: उभयत्र प्राय: समानता ही है ।
[विशेष वचन] १. णकार इज्वद्भावार्थः। घकार: सामान्याभिघातार्थः (दु० वृ०)। २. अन्तग्रहणमिह सुखार्थम् (दु० टी०, क० च०)। ३. प्रकरणं हि प्रकरणस्य नियामकम्--------- तदा सुखार्थम् (क० च०)। [रूपसिद्धि]
१. कार्यम् । कृ + घ्यण् + सि। 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'घ्यण' प्रत्यय, 'घ्-' अनुबन्धों का प्रयोगाभाव, णकारानुबन्ध से इज्वद्भाव, “अस्योपधाया दीघों वृद्धिर्नामिनामिनिचसु" (३।६।५) से 'ऋ' को वृद्धि आर् तथा विभक्तिकार्य ।