________________
१९२
कातन्त्रव्याकरणम्
[दु० वृ०]
एते निपात्येते संज्ञायाम् । कृष्टे पच्यन्ते स्वयमेव कृष्टपच्याः व्रीहयः। कुप्यते इति कुप्यम् । सुवर्णरजताभ्यामन्यदुच्यते।।९७३।
[दु० टी०]
कृष्ट ०। कृष्टे पच्यन्ते स्वयमेवेत्यादि। निपातनात् कर्मकर्तरीत्यर्थः। शुद्धे कर्मणि घ्यणेव-कृष्टपाक्य इति। यत्र संज्ञा नास्ति तत्र कोप्यमिति।।९७३।
[समीक्षा]
'कृष्टपच्य-कुप्य' शब्दों को सज्ञा अर्थ में दोनों ही व्याकरणों में निपातन से क्यपप्रत्ययान्त सिद्ध किया गया है। पाणिनि का सूत्र है- "राजसूयसूर्यमषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः” (अ० ३।१।११४)। अत: उभयत्र समानता ही है।
[रूपसिद्धि]
१. कृष्टपच्याः । कृष्ट + पच् + क्यप् + जस् । कृष्टे पच्यन्ते स्वयमेव। 'कृष्ट' शब्द के उपपद में रहने पर 'डु पचष् पाके' (१६०३) धातु से प्रकृत सूत्र द्वारा निपातन से ‘क्यप् ' प्रत्यय, समास तथा विभक्तिकार्य।
२. कुप्यम् । कुप् + क्यप् + सि। कुप्यते। 'कुप रोषे' (३।६८) धातु से क्यप् प्रत्यय तथा विभक्तिकार्य ।।९७३।
९७४. ऋवर्णव्यञ्जनान्ताद् घ्यण [४।२।३५] [सूत्रार्थ] ऋवर्णान्त तथा व्यञ्जनान्त धातु से 'घ्यण' प्रत्यय होता है।।९७४। [दु० वृ०]
ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोर्ध्यण् भवति। कृ-कार्यम् । शृ-शार्यम् । वाक्यम् । णकार इज्वद्भावार्थः। घकारः सामान्याभिघातार्थ:।।९७४।
[दु० टी०] ऋवर्ण०। अन्तग्रहणमिह सुखार्थम् ।।९७४। [वि० प०]
ऋवर्ण०। सामान्याभिघातार्थ इति। कत्वगत्वलक्षणस्य कार्यविशेषस्य सम्पादनार्थों घकार इत्यर्थः।।९७४।
[क० च०]
ऋवर्ण०। 'येन विधिस्तदन्तस्य' (का० परि०३) इति सिद्धे अन्तग्रहणं सुखार्थमिति दुर्गः। वररुचिस्त्वाह–अन्तग्रहणादधिकारार्थलाभादमावस्येति सिद्धम् । तन्मते नेदं सूत्रमस्ति। अस्मन्मते 'अमावस्या वा' (४।२।४५) इत्यत्र स्वीकारात् सुखार्थमुक्तम् ।