________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
१८९ वचनात् सोऽपि भवति। दुह्यम् इत्यादि। यजेर्गत्वप्रतिषेधाद् घ्यणि याज्यम् । जित्येति हलावभिधेये स्वभावात् स्त्रीलिङ्गम् ।।९६८।
[वि० प०]
कृवृषि०। मार्यमिति। "मों मार्जिः, चजोः कगौ धुड्यानुबन्धयोः" (३।८।२३) इति गत्वं च। क्यबेवेति। “नाम्नि वद: वयप् च” (४।६।५६) न यप्रत्ययोऽपीत्यर्थः। घ्यणेवेति। न च ऋदुपधद्वारेण क्यबित्यर्थः। पूर्ववज्जकारस्य गत्वम् । य एवेति। व्यञ्जनान्ताद् घ्यण् । घ्यणपीति। न केवलं वृदृजुषीण० इत्यादिना क्यबित्यर्थः। गोह्यमिति। नाम्न्युपधत्वाद् घ्यणि गुणो भवति। क्यबेवेति। न तु "स्वराद् यः" (४।२।१०) इत्यर्थः। जित्येति। हलावभिधेये स्वभावात् स्त्रीलिङ्गम् ।।९६८।
[समीक्षा]
‘कृत्यम् , वृष्यम् , मृज्यम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्यप् ' प्रत्यय का विधान किया गया है। पाणिनि के सूत्र हैं -- “मृजेर्विभाषा, विभाषा कृवृषोः' (अ० ३।१।११३, १२०)। पाणिनीय सूत्रद्वयप्रयुक्त गौरव की अपेक्षा कातन्त्रीय लाघव स्पष्ट है। ___[रूपसिद्धि]
१. कृत्यम् , कार्यम् । कृ + क्यप् + सि। 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा ‘क्यप्' प्रत्यय, तकारागम तथा विभक्तिकार्य। पक्ष में 'घ्यण्' प्रत्यय होने पर 'कार्यम्' शब्दरूप सिद्ध होता है।
२. वृष्यम् , वर्ण्यम्। वृष + क्यप् + सि। 'वृषु सेचने' (१२२६) धातु से वैकल्पिक 'क्यप्' प्रत्यय आदि कार्य पूर्ववत् ।।
३. मृज्यम्, मार्यम्। मृज् + क्यप् + सि। 'मृजू शुद्धौ' (२।२९) धातु से वैकल्पिक 'क्यप् ' प्रत्यय आदि कार्य पूर्ववत् ।।९६८।
९६९. सूर्यरुच्याव्यथ्याः कर्तरि [४।२।३०] [सूत्रार्थ
'सूर्य, रुच्य' तथा 'अव्यथ्य' शब्द निपातन से कर्ता अर्थ में सिद्ध होते हैं।।९६९।
[दु० वृ०]
एते निपात्यन्ते कर्तरि। 'घू प्रेरणे' (५।१८)-सुवति लोकान् सरति वा सूर्यः। रोचते इति रुच्य.। न व्यथते इति अव्यथ्यः।।९६९।
[दु० टी०]
सूर्य०। सुवति लोकानिति। कर्मणि प्रवर्तयतीत्यर्थः। सुवति कर्मणि वा। प्रेरयति, तस्मिनुदिते सर्वकर्मारम्भात् । सरतीति गमनपरत्वादिति।।९६९।