________________
१८४
कातन्त्रव्याकरणम्
[समीक्षा]
'वृत्यम्, वृध्यम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में ऋकारोपध धातुओं से 'क्यप्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है “ऋदुपधाच्चाक्लृपिचृतेः” (अ० ३|१|११० ) | अतः उभयत्र समानता ही है ।
[रूपसिद्धि]
१. ऋदिति तपरः सुखार्थ: (दु० वृ०) |
२. योगविभागः सुखप्रतिपत्त्यर्थः (दु० टी०) |
३. सम्भावनामात्रं न परमार्थः (क० च० ) ।
-
[रूपसिद्धि]
१. वृत्यम् । वृत् + क्यप् + सि । 'वृतु वर्तने' (१।४८४) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, लिङ्गसञ्ज्ञा, सि प्रत्यय तथा “अकारादसम्बुद्धौ मुश्च" (२।२।७) से 'मु' आगम-सिलोप ।
२. वृध्यम् । वृध् + क्यप् + सि । 'वृधु वृद्धौ' (१।४८५) धातु क्यप् प्रत्यय आदि कार्य पूर्ववत् ॥ ९६३ ॥
९६४. भृञोऽसंज्ञायाम् [४।२।२५]
-
[सूत्रार्थ
क्यप्प्रत्ययान्त शब्द सञ्ज्ञावाची न होने पर 'डु भृञ् धारणपोषणयोः ' (२।८५) धातु से 'क्यप्' प्रत्यय होता है ।। ९६४ ।
[दु० वृ०]
भृञोऽसंज्ञायां क्यप् भवति। भरणं भृत्यम् । भ्रियते इति वा भृत्यः। असंज्ञायामिति किम् ? भार्या नाम क्षत्रियः, भार्या वधूः । ननु च सञ्ज्ञायामपि स्त्रियां क्यबस्ति, न तस्य भावेऽभिधानात् ॥९६४|
[दु० टी०]
भृञो० । भृत्यः कर्मकारः । पोष्यत्वादेवमुच्यते, तस्येयं संज्ञा । भार्या वधूरिति । अभर्तर्यपि सम्बन्धमात्रत्वादेवमुच्यते । भार्या देवदत्तस्येति । तेन घ्यणेवात्र भवति । समजादिसूत्रे संज्ञायामपि स्त्रियां भृञः क्यपैव भवितव्यम्, न घ्यण्प्रत्ययेनेति चोदयति । ननु चेत्यादि। भावे स्त्रीलिङ्गसंज्ञायामसौ विधीयते, कर्मणि चेदं प्रत्युदाहरणमिति नास्ति क्यपः प्रसङ्ग इति परिहरन्नाह - तस्येत्यादि । अयमेवार्थः श्लोकेन निबध्यतेऽन्यैःसंज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिद्ध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति । । ९६४ । [वि० प० ]
भृञः। भृत्य इति। पोष्यत्वादुच्यते न तु संज्ञेयम्, भार्या वधूरिति । अपुष्यमाणाया