________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
१८५ अपि विवाहसम्बन्धत: सज्ञा उच्यते। न च पुनरयं क्रियाशब्दः। ननु चेति। समजासनीत्यादिना क्यबस्तीति कथं प्रत्युदाहरणे घ्यण्? न च व्यावृत्तिबलादेव तेनापि क्यप् न भवतीति वक्तव्यम्। पुंसि व्यावृत्तेर्दृष्टत्वात् स्त्रियां तु तेन क्यबेव स्यादिति पूर्वपक्षः। उत्तरमाहन तस्येति। समजादिसूत्रेण भृञो भावे क्यप् विधीयते, कर्मणि चेदं प्रत्युदाहरणमिति न दोष:। तदुक्तम् -
___ संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिद्ध्यति ।
स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति ।। भावाधिकार इति । शब्दशक्तिस्वभावाद् भृो भावे . क्यप् अधिकृतो न तु शास्त्रीयस्तत्र भावाधिकारोऽस्ति ।।९६४।
[क० च०]
भृ० । तदुक्तमिति । संज्ञायां गम्यमानायां पुंसि दृष्टत्वाद् व्यावृत्तिरिति शेषः । ते तव सिद्धान्तवादिनो मते इत्यर्थः । एतेन व्यावृत्तिबलान क्यबिति देश्यमपास्तम् । सिद्धान्तमाह- स्त्रियामित्यधिकारः सम्बन्धः, न तु पूर्वं दृष्टस्योत्तरत्रापि सम्बन्ध इति भावः ।।९६४।
[समीक्षा
'भृत्यम्, भृत्यः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्यप्' प्रत्यय निर्दिष्ट है । पाणिनि का सूत्र है – “भृञोऽसज्ञायाम्” (अ० ३।१।११२)। अत: उभयत्र समानता ही है ।
[रूपसिद्धि]
१. भृत्यम् । भृ + क्यप् + सि । भरणम् । 'डु भृञ् धारणपोषणयोः' (२।८५) धातु से प्रकृत सूत्र द्वारा ‘क्यप्' प्रत्यय, तकारागम तथा विभक्तिकार्य ।
२. भृत्यः । भृ + क्यप् + सि । भियते यः सः । 'भृ' धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् ।।९६४।।
९६५. ग्रहोऽपिप्रतिभ्यां वा [४।२।२६] [सूत्रार्थ
'अपि' तथा 'प्रति' उपसर्गों से परवर्ती ‘ग्रह उपादाने' (८।१४) धातु से 'क्यप्' प्रत्यय विकल्प से होता है ।।९६५।
[दु० वृ०]
अपिप्रतिभ्यां पराद् ग्रहे: क्यप् भवति वा । अपिगृह्यम्, अपिग्राह्यम् । प्रतिगृह्यम्, प्रतिग्राह्यम् ॥९६५।
[दु० टी०] _ ग्रह०। छन्दसीत्यपौराणिकः पक्षः इति सूत्रमुच्यते ।।९६५।