________________
१८२
कातन्त्रव्याकरणम्
(४।२।१०) । शासोरित्यादि । कथमेतद् यावता उदनुबन्धमन्तरेण 'आङः शास इच्छायाम्' (२।४६) इत्यस्यापि ग्रहणं स्यात् ? सत्यम् , एवं मन्यते - आशास्तेर्ग्रहणे घ्यणैव सिद्धत्वान्न क्यपं विदधीत, विशेषाभावात् । "शासेरिदुपधाया अण्व्यञ्जनयोः" (३।४।४८) इत्यतः कृतो हि विशेषः । नपूर्वस्य शासेरित्त्वमगुणेऽस्तीति तत्र शासुरेव ग्रहीष्यते । शिष्य इति । इत्त्वे सति "शासिवसिघसीनां च" (३।८।२७) इति षत्वम्। अवश्येत्यादि । "समासेऽवश्यमः कृत्ये" (कात० परि०-सं० सू० ६२)। मस्य लुगिति वचनादवश्यमो मलोपः । इह "उवर्णादावश्यके" (४।२।३७) इति परत्वाद् घ्यण प्राप्तो न भवतीति । 'वृक सम्भक्तौ' (८1५१) इत्यनेनावरणार्थेन सिद्धो न 'वृत्र आवरणे' (९।२९६ वृञ् वरणे) इत्यस्य धातोरयमनिवार्य इति भावः । अथवा इनन्तादावरणार्थत्वादेव स्वराद् यप्रत्यये सिद्धमित्याह- इनन्तो वेति ।।९६२। _ [क० च०]
वृञ् ० । शास्विति । 'शो तनूकरणे, षो प्रेरणे' (३।१९,२१) इत्यनयो शङ्का 'शो' इत्यकरणात् । नाम्नि भावे चेति निवृत्तमिति । यदि भावानुवृत्तिः स्यात् तदा "भावे भूवृञ्जुषीण०" इत्येकयोगः कृतः स्यात् । यदि नाम्नोऽनुवृत्तिस्तदा "नाम्नि वदः क्यप् च" (४।२।२०) इत्यनन्तरं भावे वृञ् इत्यादि विदध्यात् । अथ सिद्धान्ते कथं नामानुवृत्तिस्तदनन्तरकरणात् ? सत्यम् । भावार्थं 'भावे भुवः" (४।२।२१) इत्यस्यानन्तरमुचितमिति एतेन हनस्त चेत्यत्र विशिष्टस्यानुवर्तनमिति सूचितम् । अत्र वारणार्थे क्यप एव प्राप्तिः, तत् कथमनिवार्यमिति । अयं गजोऽन्यैर्गजैरनिवार्यः, क इव तत्राह- देहिनां प्राणिनां स्वभावो यथाऽनिवार्यस्तथेति। तत्रेति पञ्जी, तत्राणा सहचरित: शासिरिह गृह्यते इत्युक्तत्वात् ।।९६२।
[समीक्षा]
'वृत्यः, स्तुत्यः, शिष्यः' आदि शब्दरूपों की सिद्धि के लिए दोनों ही व्याकरणों में 'क्यप्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "एतिस्तुशास्वृदृजुषः क्यप्'' (अ० ३।१।१०९) । कातन्त्रकार ने सूत्र में 'गुह' धातु का भी पाठ किया है, जिसे पाणिनीय व्याकरण के अन्तर्गत वार्त्तिक सूत्र में दिखाया गया है । अतः प्राय: उभयत्र समानता ही है ।
[विशेष वचन] १. शासोरुदनुबन्धः सुखार्थः (दु० वृ०)। २. तस्मात् प्रक्रियागौरवमेव केवलम् (दु० टी०) । [रूपसिद्धि]
१. वृत्यः। वृ + क्यप् + सि । 'वृञ् वरणे' (४८) धातु से प्रकृत सूत्र द्वारा क्यप् प्रत्यय, “धातोस्तोऽन्त: पानुबन्धे' (४।१।३०) से तकारागम, गुणाभाव तथा विभक्तिकार्य ।