________________
१८१
चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः
१८१ [विशेष वचन] १. ब्रह्महत्येति स्वभावात् स्त्रीलिङ्गः क्यबन्त: इति (दु० टी०)। २. अन्यः प्रत्युदाहरति स्त्रीलिङ्गमेव – घात्या वृषली (दु० टी०)। ३. 'त' इति न प्रत्ययः, अविभक्तिनिर्देशात् (क० च०)। ४. 'त' इत्यकार उच्चारणार्थ: (क० च०) । [रूपसिद्धि]
१. ब्रह्महत्या। ब्रह्मन् + हन् + क्यप् + आ + सि । ब्रह्मणो हननम् । 'ब्रह्मणः' इस नाम के उपपद में रहने पर 'हन् हिंसागत्योः ' (२।४) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, 'क्-प्' अनुबन्धों का प्रयोगाभाव, नकार को तकारादेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य ॥९६१। .
९६२. वृदृजुषीणशासुस्तुगुहां क्यप् [४।२।२३] [सूत्रार्थ
'वृञ् वरणे' (४८), 'दृङ् आदरे' (५।११२), 'जुषी प्रीतिसेवनयोः' (५।११४), 'इण् गतौ' (२।१३), 'शासु अनुशिष्टौ' (२०३९), 'ष्टुञ् स्तुतौ' (२।६५) तथा 'गुहू संवरणे' (१।५९५) धातु से क्यप् प्रत्यय होता है ।।९६२।।
[दु० वृ०]
नाम्नि भावे चेति निवृत्तम्। एषां क्यप् भवति। वृञ् -वृत्यः। वृङस्तु वार्या ऋत्विजः। दृङ् - आदृत्यः। जुषी-जुष्यः। इण् - इत्यः। इङस्तु-उपेयम्। शासोरुदनुबन्धः सुखार्थः। शिष्यः। स्तुत्यः। गुह्यः। अवश्यस्तुत्यः इति पुन: कारग्रहणात्। कथम् 'अनिवार्यों गजैरन्यैः स्वभाव इव देहिनाम्' इति? सम्भक्तेरन्यत्रापि? वृञ इनन्तो वा।।९६२।
[दु० टी०]
वृञ् । इण्वद् इकोऽपीति अधीत्यमित्युदाहरन्त्येके । इङ इत्यादि । 'ईङ् गतौ' (३।९२) इत्यस्मात् स्वराद् य इत्यर्थः । शासोरित्यादि । 'आङः शास इच्छायाम्' (२।४६) इत्यस्य घ्यणि क्यपि विशेषाभावान ह्यापर्वस्य शासेरुपधाया इत्त्वमस्ति, तस्मात् प्रक्रियागौरवमेव केवलमिति परिशिष्टः शासुरेव गृह्यते इत्यर्थः। अवश्येत्यादि । क्यबिति। क्यबधिकारे पुन: क्यग्रहणं क्यबेव यथा स्यादिति प्रतिपादनार्थम्। "उवर्णादावश्यके' (४।२।३७) इत्यनेन परत्वाद् घ्यण् मा भूदिति । अत एव पूर्वोक्ते क्यपि पकारानुबन्ध उच्यते ।।९६२।
[वि० प०] वृत्र० । इण्वदिकोऽपि । अधीत्य इत्यपि भवति । उपेयमिति "स्वराद् यः"