________________
१८०
कातन्त्रव्याकरणम्
९६१. हनस्त च [४।२।२२] [सूत्रार्थ]
नाम = स्याद्यन्त पद के उपपद में रहने पर 'हन् हिंसागत्योः' (२।४) धातु से भाव अर्थ में 'क्यप्' प्रत्यय तथा 'हन्' धातु के अन्तिम वर्ण नकार को तकारादेश होता है ।।९६१।
[दु० वृ०]
नाम्न्युपपदे हन्ते वे क्यब् भवति तकारश्चान्तादेश: । ब्रह्मणो हननं ब्रह्महत्या। भाव इति किम् ? श्वघात्यो मृगः । नाम्नीति किम् ? घात:, उपघातः । हन्तेर्भाव घ्यण् न दृश्यते । यपि सति तोऽन्तो नास्ति, क्यपो व्यनुबन्धकत्वात् ।।९६१।
[दु० टी०]
हन० । ब्रह्मणो हननमिति 'ब्रह्महत्या' इति स्वभावात् स्त्रीलिङ्गः क्यबन्त इति प्रत्युदाहरणं पुंलिङ्गेन न विरुध्यते इति सूत्रे लिङ्गविशेषकथनाद् भिन्नलिङ्गप्रत्युदाहरणेऽपि न दोष इति भाव: । अन्यः प्रत्युदाहरति स्त्रीलिङ्गमेव - घात्या वृषली । क्यप् इत्यादि। 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (व्या० परि० ४६) इत्यर्थः ।।९६१।
[वि० प०]
हनः । श्वघात्य इति । शुना हन्यते इति विगृह्य व्यञ्जनान्ताद् घ्यण, घत्वादिकं च इज्वद्भावात् । ननु घ्यणो बाधकमिदं ततोऽनेन विनिर्मुक्तपक्षे घ्यणैव प्रत्युदाहरणमुचितम् । कथं 'घात:, उपघात:' इति घना प्रत्युदाहृतम् इति ? सत्यम् । भावे प्रत्युदाहरणं तत्र च हन्तेय॑ण् नाभिधीयते इत्याह-हन्तेरित्यादि । ननु क्यपः ककारेऽपनीतेऽनुबन्धे "यपि च" (४।१।६०) इति पञ्चमलोपे "धातोस्तोऽन्तः पानुबन्धे" (४।१।३०) इति तान्तत्वे च सिद्धं किं नकारस्य तकारादेशेनेत्याह-- यपीत्यादि । “यपि च" (४।१।६०) इत्यत्र हि यप 'एकानुबन्धस्य ग्रहणे न व्यनुबन्धस्य ग्रहणम् (व्या० परि० ४६) स्यादिति भावः ।।९६१।
[क० च०]
हन० ।'त' इति न प्रत्ययः, अविभक्तिनिर्देशात् । यथा “श्रुवः शृ च'' (३।२।३५) इति। 'त' इत्यकार उच्चारणार्थः ‘ब्रह्महत्या सुरापानम्' इत्यादिनिर्देशात् ।।९६१।।
[समीक्षा]
'ब्रह्महत्या, अश्वहत्या' इत्यादि शब्दरूपों के सिद्ध्यर्थ क्यप् प्रत्यय तथा नकार को तकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है – “हनस्त च" (अ० ३।१।१०८)। अत: उभयत्र समानता है ।।९६१।