________________
चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः
१७९
कृद् यः स्वरवत्' (४।१।३१) इति स्वरवद्भावादवादेशः । अथ भावग्रहणं किमर्थम् ? भवतेरकर्मकत्वाद् भावे एव भविष्यति, न कर्मणि । अथ प्राप्तिवचनस्य भवते: सकर्मकत्वम् । यथा सर्वं भवति, सर्वं प्राप्नोतीति ? सत्यम्, यत् प्राप्त्यर्थस्य भवते: सकर्मकत्वम्, तत् कृत्यप्रत्ययान्तस्य सोपसर्गस्यैव भवति नानुपसर्गस्य, स्वभावात् । तत्र च नामग्रहणेनैव तत्प्रतियोगिना व्यावृत्तिः सिद्धा, एवं सति 'सुखमनुभूयते.' इत्यत्रापि सकर्मकस्य कर्मणि न प्राप्ति:, उक्तादेव हेतोरिति ? सत्यम्, एवन्तर्हि उत्तरार्थं क्रियमाणमिहापि सुखार्थं भवतीत्याह- भावग्रहणमित्यादि ॥९६०।
[क० च०]
भावे० । सर्वं भवतीति । ननु 'भू प्राप्तावात्मनेपदी' (९।२८०) इत्यात्मनेपदमेव प्राप्नोति, तत् कथं परस्मैपदनिर्देश: ? सत्यम् । तत्र इनन्त इति बोद्धव्यम्, चुरादिपाठसामर्थ्याद् इनन्ते सति प्राप्त्यर्थो भू प्राप्तावात्मनेपदीत्यर्थः इति केचित् । तन्न, "चुरादेश्च" (३।२।११) इत्यत्र टीकायां गणकृतमनित्यमिति ‘भावयते, भवते' इत्यनिनन्तस्यापि
आत्मनेपददर्शनात् । कश्चिद् आह – 'गणकृतमनित्यम्' (का० परि० २९) इति नात्मनेपदम् । वस्तुतस्तु नायं चुरादिपठितो भूः, किन्तु धातूनामने गर्थत्वाद् यदा 'भू सत्तायाम्' (१।१) इति भूधातुः. प्राप्तौ वर्तते, तदैवमुदाहरणम् ।।९६०।
[समीक्षा] ___ 'ब्रह्मभूयं गतः, देवभूयं गतः' इत्यादि क्यपप्रत्ययान्त शब्दरूप भाव अर्थ में सिद्ध करने के लिए दोनों ही व्याकरणों में 'क्यप्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "भुवो भावे' (अ० ३।१।१०७) । सूत्र में 'भाव' शब्द का पाठ उत्तरार्थ माना गया है । अत: उभत्र समानता ही है ।
[विशेष वचन] १. भावग्रहणमुत्तरार्थमिह सुखार्थं च (दु० वृ०; दु० टी०; वि० प०) । २. अन्ये च धातवोऽर्थान्तरे सकर्मका अकर्मकाश्च दृश्यन्ते (दु० टी०) । ३. प्राप्तिवचनस्य भवते: सकर्मकत्वम् (वि० प०) । ४. वस्तुतस्तु नायं चुरादिपठितो भूः, किन्तु धातूनामनेकार्थत्वाद् यथा 'भू ___ सत्तायाम्' इति भूधातुः प्राप्तौ वर्तते तदैवमुदाहरणम् (क० च०) । [रूपसिद्धि]
१. ब्रह्मभूयं गतः । ब्रह्मन् + भू + क्यप् + सि । ब्रह्मत्वं गतः। 'ब्रह्मन्' शब्द के उपपद में रहने पर 'भू सत्तायाम्' (१।१) धातु से प्रकृत सूत्र द्वारा 'क्यप् प्रत्यय, नलोप तथा विभक्तिकार्य।।९६०।।