________________
१७३
चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः १७३ [दु० वृ०]
पण्यमिति निपात्यते विक्रेयेऽर्थे । पण्यं विक्रेयद्रव्यम् । पाण्यमन्यत्। नपूर्वस्य वदे:-अवयम् इति निपात्यते गर्योऽर्थे । अनुद्यमन्यत्। नाम्नि वद: क्यप् च (४।२।२०)। वृडो वर्या इत्यनिरोधे गम्यमाने । वर्या अन्या । स्त्रीलिङ्गनिर्देशादिति मतम्-वार्या ऋत्विजः।।९५४।
[दु० टी०]
पण्य०। 'पण व्यवहारे' (१।४०१)- पणनीयम् ,पण्यम् ।पाण्यमन्यदिति विक्रेयात् स्तोतव्यमित्यर्थे घ्यण। अवद्यमिति न वदनीयम्, कुत्सितत्वादित्यर्थः। अनुद्यमन्यदिति गर्हितत्वाद् वृङ: संभक्तार्थतया मैत्रीकरणार्थ इत्यविरोधविषयो भवति। शतेन वर्या स्त्री,सम्भक्तव्या मैत्रीकर्तव्येत्यर्थः। वृञः पुनरावरणार्थवृत्तित्वात् प्रतिबन्धे वृत्तिरिति अनिरोधेऽप्रतिबन्धे प्रसराविघात इति यावत् । वृत्या अन्येति निरोधनीया "वृदृजुषी०" (४।२।२३) इत्यादिना क्यप् । स्त्रीत्यादि मतं मतान्तरमेतत्। ऋत्विजां यजनद्रव्यविभागकरणेनानिरोधो गम्यते, पुमांसो ह्यमी नात्र निपातनम्। सूत्रकारस्य मंतेन ‘वर्या ऋत्विजः' इति भवितव्यम् । अन्यथा निःसन्देहार्थं वर्यापण्यावद्यानीति विदध्यात् । तथा च वर्यं प्रधानमुत्तमं विदुरित्यभिधाने भाष्येऽपि नास्ति विशेषः।।९५४।
[वि०प०]
पण्या० । वयेति । वृङ् सम्भक्तौ' (८1५१) । सम्भक्तिश्च मैत्रीकरणमित्यनिरोधो 'गम्यते । यथा 'शतेन वर्या, सहस्त्रेण वर्या'। सम्भक्तव्या मैत्रीकर्तव्येत्यर्थः। वृत्या अन्येति। या निरोधनीया। वृञ् आवरणे। अत्रावरणार्थवृत्तितया निरोधो गम्यते "वृदजुषीणशासुस्तुगुहां क्यप् " (४।२।२३) स्त्रीत्यादि । ऋत्विजां यजनकर्माधिगतद्रव्यसंविभागकरणेऽनिरोधोऽप्रतिबन्धः। स्वातन्त्र्यानभिघातोऽस्त्येव, केवलम् एते पुरुषा इति नात्र निपातनम् । मतमिति मतान्तरमेतत्। सूत्रकारस्य तु मते भवितव्यमेव निपातनम्। वर्या ऋत्वज इति । स्त्रीलिङ्गनिर्देशेन हि "वर्यापण्यावद्यमनिरोधविक्रेयगर्केषु' इति कुर्यात् । एवं हि न सन्देहः किं दीर्घः, दीर्घात् परलोपमात्रं वा इति । असन्दिग्धं हि सूत्रं प्रशस्यते पण्डितैः। तथा च -वर्यं प्रधानमुत्तमम् इत्यभिधाने सामान्येन पठ्यते ।।९५४।।
[क०च०]
पण्याः । अनुद्यमित्यत्र नञ् नाम्न उपपदम् इति "नाम्नि वदः क्यप्" (४।२।२०)। कश्चिद् आह-सूत्रे स्त्रीलिङ्गनिर्देशात् स्त्रियामेवास्य विषयः इति तदेव प्रकाशयति-स्त्रीत्यादि । तथा च भट्टो–'सुग्रीवो नाम वर्यासौ' इति ।।९५४।
[समीक्षा
'अवद्यम् ,पण्यम् ,वर्या' शब्दों के अर्थविशेष में सिद्ध्यर्थ दोनों ही व्याकरणों में निपातनविधि अपनाई गई है, क्योंकि असामान्य स्थिति में यही एक ऐसी विधि है,