________________
१६२
कातन्त्रव्याकरणम्
यत्तु स्त्रियामिति विशेषणं तत् प्रत्ययद्वारकमेवेति वक्ष्यमाणेनान्वयः । कथं प्रत्ययद्वारकमित्याह - प्रत्यय एव सन्निहित इति । अथ प्रत्यय एव स्त्रीत्वमभिधेयत्वेनोपात्तस्तत् कथमित्याह - विवक्षावशादिति। धातुविशेषणासम्भवे कर्ता प्रत्ययविशेषणमेव विवक्ष्यते इति भावः । ननु प्रकृतेः स्त्रियां वृत्त्यभावे प्रत्ययस्य कथन्तदभिधेयता । तथाहि स्त्रियां वर्तते लिङ्गम् , तस्माल्लिङ्गात् तदभिधायक आप्रत्यय इत्याह - प्रकृतीति । एतेन प्रकृतिविशेषणतया स्त्रीत्वमुपादत्ते । यद् वा स्त्रियामित्यस्य प्रत्ययद्वारकविशेषणं घटते । प्रकृतीति व्यावृत्त्यभावेऽपि प्रकृतेः स्त्रियामिति विशेषणम्। लव्या, लवितव्येति । ननु तव्यादयो हि कर्मणो वाऽभिधीयन्ते, न त स्त्रियां न पदान्तरसम्बन्धात् स्त्रीरूप कर्मण्येव प्रत्यय इति वाच्यम् । यत: कृत्तद्धितसमासाख्याते: सामान्याभिधायिभिर्विशेषाणामनभिधानमिति सामान्ये कर्मण्येव प्रत्ययः इति ? सत्यम्, अत्रापि स्त्रीसामान्येनैव प्रत्ययः, न तु विशेषस्त्र्यव्यक्तावभिधेयायामिति । अथास्त्वेवम्, का क्षतिरिति स्त्रीसंशब्दनपक्षस्याभिधेयपक्षस्य चैकमेव सिद्धान्तमाह - न चेति । इष्टाश्रयणं कष्टमित्याह – व्याख्यान इति । 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्भविष्यति न हि सन्देहादलक्षणम्' (का० परि० ६५) इति परिभाषेव कारणमिति कुलचन्द्रः।
__ पञ्जिकासम्प्रदायस्तु व्याख्यानं चैतत् "कर्मव्यतीहारे णच स्त्रियाम्" (४।५।४०) इत्यत्र स्त्रीपदमनर्थकम् , "स्त्रियां क्तिः" (४।५।७२) इत्यनन्तरपाठेनैव सिद्धेः । स्थितौ हि स्त्रियामिति वर्जनं न स्याद् इति "स्त्रियां क्तिः" (४।५।७२) इत्यस्मात् प्रकरणात् पृथक् पठ्यते । यद् वा "भावे पचिगापास्थाभ्यः" (४।५।७४) इति वचनमनर्थकं वाऽसरूपन्यायेनैव "षानुबन्धभिदादिभ्यस्त्वङ्" (४।५।८२) "आतश्चोपसर्गे" (४।५।८४) इत्यस्यापि विषये “स्त्रियां क्तिः” (४।५।७२) इत्यनेनैव सिद्धः । कश्चिद् आह - अनचीति कुर्यातन्न चान्य: स्त्रीसंशब्दनविहितोऽस्ति येन स्त्रियामिति पदम् । अथ क्तिरपि स्त्रीसंशब्दनाद विहितेति चेद अपवादविषये उत्सर्गस्यापि समावेशार्थमिदं वचनम् । अत: क्तौ न वासरूपविधिः,उत्सर्गत्वात् । ननु क्तिरपि अपवादो भवति भाव इति घञपेक्षया । ततश्च क्तिविषये 'पाकः' इति घञ् कथन स्यात् ।अथाधिकारपक्षे कथमेवं न स्यात् क्तौ स्त्यधिकारविहितत्वाभावात् पूर्वदृष्टस्योत्तरत्र सम्बन्धो ाधिकारः,नैवम् स्त्रियामधिकृत्य इत्यधिकारः सम्बन्धः ।यथा ब्राह्मणानामत्राधिकारः,स च सम्बन्ध: साक्षादनुमितत्वेन वा न दोषः। तर्हि कर्मव्यतीहारे इत्यत्रापि स्त्रीशब्दोऽस्ति,तत्रापि वर्जनं स्यात् । नैवम्, स्त्रियामिति पृथगुपादानान्न दोषः। अन्यथा "स्त्रियां क्तिः" (४।५।७२) इत्यनन्तरं कर्मव्यतीहारे णजिति कुर्यात् । बाधकत्वमिति विषय इत्यर्थः।
__नामाभ्युपगमे अप्रत्ययिकाया इति यद्यपि नापवादं प्रयुञ्जीतेति,तथाप्यनिष्टकल्पना स्यात् 'अपवादविषयं परिहत्योत्सर्गो हि प्रवर्तते' इति न्यायादित्यर्थः । ननु युक्तिमूलिकेयं परिभाषा, यक्तिः पुनरेषा अपवादेनोत्सर्गबाधा द्विधा सम्भवति-कार्यस्य शास्त्रस्य च । तत्र शास्त्रबाधापक्षे "स्वराद् यः" (४।२।१०) इत्यपवादेन यप्रत्ययेन "तव्यानीयौ " (४।२।९) इत्युत्सर्गशास्त्रं बाधितम् ,अतोऽनयोरिय: एव नास्ति, अपवादप्रवृत्तिपक्षेऽपि