________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
१६१
"
विषयमनुप्रविशतीति । सकलमालोक्य श्लोकेनाह विकल्पित इत्यादि । वाशब्द इति । "नपुंसके भावे क्तः, युट् च' (४|५|९३, ९४ ) 'हसितम्, हसनम्' एतयोर्विषये 'भावे" (४|५|३) इति घञ् न भवति । इच्छार्थेष्वेककर्तृकेषु तुम् इच्छति भोक्तुम् । अस्य विषये सप्तमीपञ्चम्याविच्छार्थकधातुप्रयोगे विध्यादिषु प्रार्थनद्वारेण विहिते । यथा - 'इच्छामि भुञ्जीत भवान्, इच्छामि भुङ्क्तां भवान् एतौ न भवतः । तथा "आद्भ्यो य्वदरिद्रातेः'' (४।५।१०४) - ईषत्पान:, सुपान इति खलर्थस्य योर्विषये "ईषदुः सु० " (४।५।१०२) इत्यादिना खल् न भवति ॥ ९४७।
-
-
,
[क० च० ]
44
I
वाऽस० । ननु रूपमाकृतिस्तेन सह वर्तते इति सरूपः, न सरूपोऽसरूपः इत्यनतिक्रमतः कथं प्रवर्तनमित्याह - न विद्यते इत्यादि । रूपादौ वेति समानस्य सभावः । यथा समान इति । ननु सरूप इति कथं नार्थः, नञ्लोपे किं प्रमाणम् ? सत्यम् । अस्त्रियामित्यकारादिस्तत्साहचर्यान्नञ् प्रतिपत्तव्यः इति हेमः । कश्चिद् आह'कृवृषिमृजां वा" (४।२।२९) इति वाग्रहणान्नञ् प्रतिपत्तव्य इति, अन्यथा ‘“वाऽसरूपोऽस्त्रियाम्” (४।२।८) इत्यनेन क्यप्सरूपस्य विषये पक्षे घ्यण् भविष्यति, तथा ‘“स्वनहसोर्वा” (४।५।४६) इति वाग्रहणमपि व्यर्थम् । अल्घञोः समानंरूपत्वादनेनैव विकल्पः सिद्धः, तथा “वा ज्वलादिदुनीभुवो णः " (४/२/५५ ) इति वाग्रहणं व्यर्थम्, अचा तुल्यत्वात् । तन्न, नियमार्थं वाग्रहणं भविष्यति कृत्यादीनां मध्ये एषां क्यबेव वा भविष्यति नान्य:, तेन समानरूपत्वात् प्राप्तो यः प्रत्ययोऽनेन व्यावृत्यते, तथा स्वनहसोरेव अल् भविष्यति नान्येषाम् तेनान्येषां प्राप्तस्य घञो व्यावृत्तिः । तथा "वा ज्वलादि ० " (४।२।५५ ) इत्यत्रापि नियमः कर्तृविहितानां मध्येऽस्यैव विकल्प: ? सत्यम्, विधिनियमसम्भवे विधेरेव बलवत्त्वाद् असरूप एवेति स्त्रीशब्देनात्र स्त्र्यधिकारविहितः प्रत्यय उच्यते, उपचारात् ।
उपचारमाह
उपचारे क्वचित् स्वलिङ्गसङ्ख्यावस्थितिरिति न्यायान्न लिङ्गत्यागः । ननु असरूपकृत्प्रत्ययः किंविशिष्टः अस्त्री स्त्र्यधिकारविहितप्रत्ययाद् भिन्न इति विशेषणत्वात् प्रथमैव युज्यते कथं सप्तमी ? सत्यम्, निर्धारणे सप्तमीयं स्त्र्यधिकारविहितप्रत्ययमध्ये योऽसरूपः सः बाधको भविष्यतीत्यर्थः । वृत्तौ स्त्र्यधिकारविहितं वर्जयित्वेति निर्गलितार्थ उक्तः । पञ्जिकायामुपचारादिति । ईदृश उपचारः कथन स्यादित्याह - अथेति । स्त्रीसंशब्दनात् सूत्रे स्त्रीशब्दोल्लेखान्न व्यवक्रुष्टिरिति । अथ न भवतु का क्षतिः, नहि दूषणमेव हेतु:, स्त्रीसंशब्दनेऽस्य पक्षस्य स्त्रियामभिधेयायामिति पक्षस्य च सिद्धान्तः एकदैव न चेष्टार्थमुपादीयमानं शास्त्रम् इत्यनेन पश्चाद्ग्रन्थेन वक्ष्यते । धातुर्हति पञ्जी । ननु यदि धातुः स्त्रियां न वर्तते, तत् कथं ‘“स्त्रियां क्तिः” (४|५/७२ ) इत्यादौ स्त्रियामिति धातुविषये बलमित्याह यत्त्विति ।
-
1
—