________________
१६०
कातन्त्रव्याकरणम्
[वि० प०]
वास० । स्त्रियामधिकृत्य विहितः प्रत्ययोऽपि स्त्रीत्युपचाराद् इत्याह - स्त्र्यधिकारविहितं प्रत्ययं वर्जयित्वेति । स्त्रीप्रत्ययेषु न वासरूपविधिरित्यर्थः। अथैवं कथमिह न ज्ञायते अस्त्रियामिति स्त्रीसंशब्दनाद् यः प्रत्ययो विहितः सः स्त्री तत्र न वासरूपविधिरिति । नैवम् ,एवं सति "कर्मव्यतीहारे णच स्त्रियाम् ' (४।५।४०) इत्यस्य णचोऽपवादस्य विषये स्त्रियां क्तिरुत्सर्गो न स्यादिति । ततश्च व्यवक्रोशीत्येवं स्यान्न व्यवष्टिरिति स्त्रियां वर्तमानाद् धातोर्न वासरूपविधिरित्यपि वाक्यार्थो न युज्यते ।यथा स्त्रियां वर्तमानाल्लिङ्गाद् आप्रत्यय इति, धातुर्हि क्रियाभिधायी स कथं वर्तितुमुत्सहते ।यत्तु स्त्रियामिति विशेषणं तद् विवक्षावशात् प्रत्यय एव सन्निहितः स्त्रीत्वमभिधेयत्वेनोपादत्ते इति, प्रत्ययद्वारकमेव प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति। तर्हि स्त्रियामभिधेयायां य: प्रत्ययोऽसरूपस्तत्र न वासरूपविधिरित्यस्तु वाक्यार्थः? नैवम् ,तदा लव्या, लवितव्येति अभिधेया स्त्रीति यविषये तव्यो न स्यात् ।
न चेष्टार्थमुपादीयमानं शास्त्रमनिष्टाय परिकल्पते इति युक्तम् ,व्याख्यानतश्च विशेषार्थस्य प्रतिपत्तयो भवन्तोति न दोषः। अथापवादबाधितस्योत्सर्गस्यापवादविषये पक्षे समावेशार्थमिदं वचनम् । तत्तु कथमिति चिन्त्यते-किमपवादोऽनेन विकल्प्यते उत्सगों वा? अपवादस्य बाधकत्वं वा? तत्राहो पक्षेऽसरूपोऽपवादो वा भवतीत्युक्तेऽपवादस्योत्पत्ति: पक्षे विहिता भवति ,बाधकत्वं पुनरस्य पक्षान्तरेऽप्यक्षुण्णमेव। न तत्रोत्सर्गः प्रवर्तितुमर्हति । यदि नाम स्वविषयेऽपवादः पक्षे भवति। उत्सर्गस्तु तद्विषयपरिहारेण प्रवर्तमानः पक्षान्तरे कथं भवति उत्सर्गस्तु तद् विषयपरिहारेण प्रवर्तमानः पक्षान्तरे कथं स्याद् इत्यप्रत्ययिकायाः प्रकृतेः श्रवणं स्यात्। अथापवादस्याभावपक्षे प्रतिबन्धकाभावादुत्सों भविष्यतीति चेद् ,अयुक्तमेतत् । यदि कार्यबाधेयं स्यात्र त्वसौ कार्यस्य विधायकं शास्त्रम् ,तत्राबाधिते शास्त्रे कथं कार्यं बाधते इति । नेदमनुरूपम् ,न खलु प्रदीपोच्छेदनमन्तरेण तत्प्रभोच्छित्तिमुपलभामहे, तस्माच्छास्त्रबाधेयम् । ततश्चापवादशास्त्रेण स्वविषयं स्वीकुर्वता बाध्यमानमुत्सर्गशास्त्रं तद्विषयपरिहारेणैव व्यवतिष्ठते ।तथा च सति न कार्यसिद्धिः, तन्मूलस्यैव शास्त्रस्य तदविषय-परिहारेणैव व्यवतिष्ठते । तथा च सति न कार्यसिद्धिः,तन्मूलस्यैव शास्त्रस्य निमूलकाषं कषितत्वादिति न विकल्पितेऽपवादे फलमस्ति,बाधनस्य तदवस्थितत्वादिति भावः।।
द्वितीयेऽपि उत्सर्गोऽसरूपोऽस्त्रियां वा भवतीत्युत्ते न लाभोऽस्ति, अपवादेन हि प्रतिबन्धकाभागातं स्वविणयं नित्यम् अधितिष्ठता नोत्सर्गसमावेशोऽनुकूल्यते । तृतीयस्तु न्याय्य इति सूत्रार्थे दर्शितम् । असरूप: कृत्प्रत्ययो वा बाधको भवतीति अपवादस्यासेंरूपस्य बाधकत्वं वा भवतीति विकल्पेन बाध्यते इति यावत् । बाधकत्वं च धर्मो धर्मिणमन्तरेण नोपपद्यते इति तत्र पक्षेऽपवादस्योत्पत्तिर्भाव्यते । पक्षान्तरे चाविद्यमानबाधकत्वादुत्सर्गस्तद्