________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
तृतीयेऽप्युत्सर्गेऽपवादेऽप्यस्त्रियां वा भवतीति । एवमप्युत्सर्गस्यापवादविषये न प्रवृत्तिः, पूर्वोक्तादेव हेतोरिति । तृतीयस्तु पक्षः पूर्वपक्षयोरन्तर्भावान्मन्दमतिबोधनार्थ उच्यते । एवं चोद्यमुद्दिश्याह - असरूप इत्यादि । किमुक्तम् असरूपस्य बाधकेनैव सम्बन्धो न विकल्पेनेत्यर्थः । बाधकत्वस्य वावचनादिति वक्तव्यम्, इतरथा हि स एव सन्देहः, किं बाधकस्योत्पत्तिर्वावचनाद् आहोस्विद् बाधकत्वस्य वावचनादिति वक्तव्यम् । बाधकत्वयोगाद्धि बाधको भविष्यति, तत्रार्थाद् धर्मिविकल्पादेव धर्मविकल्पः सिध्यतीति वाऽसरूपोऽपवाद इत्युक्ते किं बाधते आहोस्विद् उत्पद्यते इत्याशङ्कायामुत्पत्तौ दोषदर्शनाद् बाधक इत्याकाङ्क्षाविच्छेदं करोति । बाधकत्वं च नानुत्पन्नस्य सम्भवतीति । यद्येवं 'भ्राशभ्लाश' इत्यादौ वावचनमस्ति इत्यन्विकरणः पक्षे न स्यात् ? सत्यम्, नैतद् वक्तव्यम् इह भौवादिका धातवः पक्षे सन्तीत्यङ्गीकृतम् । वक्तव्यवादिनां तु मतेऽन्स्थाने यनादेशः, पक्षेऽन्विकरणस्तिष्ठति । एवं दुहदिहलिहगुहामात्मने वतवर्गे सिचः पक्षे सण्णादिश्यते व्यवस्थितविभाषाबलादेव व्यक्तेराश्रयणाद् वा यावन्ति लक्ष्याणि तावन्ति लक्षणानीत्यदोषः
१५९
क्विपोऽसरूपत्वाद् ग्रामणीरिति नित्यं स्याद् ग्रामणाय इति न स्यात् । द्वयोश्च रूपवतोः सारूप्यमसारूप्यं वा उपदेश आश्रीयते, शास्त्रविधायकमपवादस्य शास्त्रमेव प्रत्यासन्नं न प्रयोग इति । प्रत्यक्षं खल्वपि शास्त्रम्, अनुमेयः प्रयोगः । अन्तरङ्गं च शास्त्रं बहिरङ्गः प्रयोगः इति कविषयेऽपि स्यात् " ह्वावामश्च" (४।३।२) इत्यनित्यम् भविष्यति ? सत्यम्, प्रत्यय इत्यन्वर्थसंज्ञा, न तेऽनुबन्धा अर्थप्रत्ययाः नान्तरङ्गम्, किन्तर्हि कार्यार्था एवेत्याह कविषय इत्यादि। अथवा 'नानुबन्धकृतमसारूप्यम्' ( व्या० परि० १३) असरूपग्रहणस्य निर्वत्र्त्य एवान्यथास्तीति ।
-
अस्त्रियामित्युक्ते कथं स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वाऽयमर्थो लभ्यते। 'स्त्रियामभिधेयायामिति तु न युज्यते, तर्हि स्त्रियां यद् वर्तते लिङ्गमभिधानभावेनेति निश्चितमपि । 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' (का० वृ० १/२/५६ ) इति प्रत्यय एव विवक्षावशात् सन्निहितस्त्रीत्वमभिधेयेनाश्रयतीति पक्षः, तदा 'लव्या, लवितव्या' इति यविषये तव्यो न स्यात् 'व्याख्यानतो विशेषार्थप्रतिपत्तेर्नहि सन्देहादलक्षणम्' (का० परि० ६५) । विधिर्वाधिकारो वा । तत्र विधिपक्षमाश्रित्याह – व्यवस्थितेत्यादि । क्युविषये नपुंसके भावे घञ् न भवति, इच्छार्थेषु तुम् । इच्छार्थेषु च सप्तमीपञ्चम्याविति समानार्थत्वं प्रयोगतश्चेति वचनात् । ईषत्पान : इति । “ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्" (४|५|१०२) न भवति। अधिकारपक्षेऽपि परिमाणज्ञापनार्थं भवति। अस्त्रियामिति अधिकाराद् वासरूपो भवतीत्यधिकार एव। एवमपि 'आस्यते भोक्तुं वटुना' इत्यासेः पूर्वकालत्वं गम्यते इति भावे क्त्वापि प्राप्नोति । एवम्प्रकारेऽपि व्यवस्थितविभाषैव सिध्यति ॥ ९४७ ॥
१. स्त्रियामित्यधिकृत्य विहितः प्रत्ययोऽपि स्त्रीत्युपचारात् स्त्रीप्रत्ययेषु न वासरूप इत्यर्थः । कथमेवं न विज्ञायते स्त्रियामिति स्त्रीशब्दाद् यः प्रत्ययो विहितः स इह स्त्रीशब्दवाच्यः । एवं विज्ञायमाने कर्मव्यतीहारे णच् स्त्रियां क्तिरिति णज्विषये क्तिर्न स्यात् व्यवक्रोशी, व्यवक्रुष्टिरिति ।