________________
१५८
कातन्त्रव्याकरणम्
को ककार, लिङ्गसंज्ञा, सि-प्रत्यय तथा “आ सौ सिलोपश्च'' (२।१।६४) से ऋकार को आकार-सिलोप ।।९४६।
९४७. वाऽसरूपोऽस्त्रियाम् [४।२।८] [सूत्रार्थ
स्त्र्यधिकारविहित प्रत्ययों को छोड़कर असमानरूप कृत्प्रत्यय विकल्प से बाधक होते हैं ।।९४७।
[दु० वृ०]
न विद्यते समानं रूपं यस्येति विग्रहः । स्त्र्यधिकारविहितं प्रत्ययं वर्जयित्वा असरूप: कृत्प्रत्ययो वा बाधको भवति
विकल्पितेऽपवादेऽपि बाधनं तदवस्थितम् ।
उत्सर्गे न च लाभस्तद् बाधकत्वं विकल्प्यते ।। स्वराद् योऽपवादस्तद्विषये तव्यानीयौ - चेयम् , चेतव्यम् , चयनीयम् । एवं "नन्द्यादेर्युः" (४।२।४९) - नन्दनः, नन्दकः, नन्दयिता । एवमन्येऽपि । असरूप इति किम् ? घ्यणि यो न स्यात् - कार्यम् । कविषयेऽण् न स्यात् - गोदः। "अनुबन्धोऽप्रयोगी" (३।८।३१) इति सारूप्यमेव । अस्त्रियामिति किम् ? चिकीर्षा, क्तिर्न स्यात् । तथा ईशना, श्रन्थना । युरेव । वाशब्दो व्यवस्थावाचीति - क्त-युट्तुम्-खलर्थेषु वासरूपविधिर्नास्तीति ।।९४७।
[दु० टी०]
वास० । अपवादबाधितस्योत्सर्गस्यापवादविषये समावेशार्थं वचनम् । नन्वत्र, वचनेऽप्यस्मिन्निदं न सिध्यति किमस्योत्सर्गेण वा सम्बन्धः, अपवादेन वा द्वाभ्यां तत्र पूर्वपक्षे वाशब्देन विकल्पार्थेन भावाभावयोरुपस्थापितयोरस्यायमर्थ: स्यात् । उपसगों वाऽसरूपोऽस्त्रियां पक्षे न भवतीति, अपवादस्य तस्मिन् विषये नित्यं प्रवृत्तिः स्यात् तेन सहास्य सम्बन्धात् । अस्य द्वितीयेऽप्यसरूपोऽपवादोऽस्त्रियां विकल्पेन भवतीति । एवमप्युत्सर्गस्यापवादविषया प्रवृत्तिरलभ्या, उत्सर्गो ह्यपवादविषयं परिहरतीत्यप्रत्ययिकायाः प्रकृतेः श्रवणं युज्यते । अथापवादस्याभावपक्षेऽन्तरेण प्राप्तमन्यद्वचनमुत्सर्गो भविष्यति, प्रतिबन्धकाभावादिति । तदुच्यते, कार्यबाधायामेव न तु शास्त्राबाधायां कार्यबाधाविधायकशास्त्रम् (तदपवादेन बाध्यमानं शास्त्रम्) तद्विषयकवर्जनेनैव प्रवर्तते। तस्मिन् प्रवृत्ते पश्चाद् अपवादेऽप्रवृत्तिमभिभवत्यपि तद्विषये उत्सर्गस्य प्रवृत्तिः सामान्यशास्त्रस्य तद्विषयकत्वात् कार्यबाधापि न युक्ता । शास्त्रं हि निवर्तकं कार्याणां तत्राबाधिते शास्त्रे कार्य बाध्यते इति नैतदनुरूपम् । प्रदीपोच्छेदे हि तत्प्रभोच्छिद्यते अस्मादपवादे विकल्प्यमाने पुनरुत्सर्गस्य प्रवृत्तिरयुक्ता ।