________________
चतुर्थे वृतात्ययाध्याये द्वितीयो धातुपादः विषयो नास्तीति कथं प्रवर्तिष्यते। अपवादविषयोऽस्ति, उत्सर्गस्य विषयो नास्ति यत इति तत्रैवोच्यते 'अपवादविषयं परिहृत्योत्सर्गः प्रवर्तते' (का० परि०५५) इति परिभाषा। यद्यपवादिनः कार्यस्य तदाऽपवादप्रवृत्तिपक्षे विषयोऽस्तीति कथं न वर्तिष्यते, प्रतिबन्धकबाधकाभावादिति पूर्वोक्तकार्यस्यापवादस्य बाधामाश्रित्य दूषयन्नाह-अथेति। अत्र पक्षे बाधकविकल्पः इति न दोषः। किन्तु यदि कार्यस्य बाधा अवलम्ब्यते इत्याह-युक्तमेतदिति ।
अथ कथं नावलम्ब्यते शास्त्रबाधैव भवति न कार्यस्येति । कः शपथ इत्याह-कार्यस्येति । एतेन हेतच्छेदे पुषव्यापारो हेव साध्य इति भावः। असो कार्यबाधेत्यर्थः। नेदमनुरूपम् । न योग्यमित्यर्थः। यद्येवम् ,असरूपकृत्प्रत्ययस्य बाधकत्वं वा भवत्येवेति विशेषणमुचितम् ? सत्यम् ,असरूपकृत्प्रत्ययबाधको भवर्तीति तात्पर्यार्थकथनम्। तथाहि बाधकत्वेऽपि विकल्पिते बाधकसूत्रमेव प्रवर्तते । पक्षे तत्प्रवर्तने कार्यमपि प्रवर्तते इति तात्पर्य विवृणोति अपवादेति । नपुंसक इति । ननु क्तयुटो: सामान्येन निषेधाद् गत्यर्थेत्यादिना विहितस्य क्तप्रत्ययस्य विषये गमः तिर्न स्यात, तथा "करणाधिकरणयोश्च' (४।५९५) इति युड्विषये 'स्नानीयं चूर्णम्' इति "कृत्ययुटोऽन्यत्रापि" इति वचनादनीयो न स्यात् ? नैवम् , कृत्ययुटो: संनिहितपाठात् सन्निहितपाठयोर्नपुंसके तो युट चेत्यनयोर्भावविहितयोरेवं ग्रहणं स्यात् । अन्यथा 'क्तयुटतुम्' इत्यादि पठितं स्यात्, तस्माद् भावविहितयोरेव ग्रहणम्, तर्हि करणाधिकरणयोहेयम् इति हेमोक्तिः कथं सङ्गच्छते ? सत्यम्। अत्र शिरश्चालनेन नजा न भवति, अपि तु भवत्येव । ननु 'चेतव्यम्, चयनीयम्' इति किमर्थमुदाहतम्, वचनबलादेव तव्यानीयौ भविष्यतः, अन्यथा स्वराद् योऽस्ति बाधकः, "व्यञ्जनाच्च" (४।५।९९) इति घ्यणि कुत्र तव्यानीयाविति वचनस्यावकाशः ? सत्यम्, हन्तेर्भाव घ्यण न दृश्यते इति वक्ष्यते, तत्रास्ति सूत्रस्य चरितार्थता ।
___इच्छामि भुञ्जीतेति । ननु आख्यातिक: कर्तरि, तुम् भावे, भिन्नविषयत्वात् कथं बाध्यबाधकभाव: ? नैवम् । 'आख्यातं क्रियाप्रधानम्' इत्याख्यातमपि भावनाख्यम् भावमाह । कर्तरि परस्मैपदमिति । कर्तृशब्दो धर्मपरः, कर्तृत्वे परस्मैपदमित्यर्थः। कर्तृत्वं च भावनाश्रयत्वम्, तच्च भावनैवेति बाध्यबाधकभावो घटत एव । यद् वा इच्छामि भुज्यतां भवतेति भावे बोध्यम्। पञ्जिकायां तु भवितारमन्तरेण भावो न सम्भवतीति, भावेऽपि कर्ता प्रतीयते इति न्यायात् तदर्थं क्रियमाणं कर्तारमपि विषयीकरोतीति दर्शितम् । तर्हि सप्तमीपञ्चम्यौ किम्भूते इच्छार्थधातुप्रयोगे विध्यादिषु प्रार्थनद्वारेण विहिते न भवत: इत्यर्थः । कुत्र न भवत: इत्याह- यथेति ।।९४७।
[समीक्षा]
समग्र व्याकरण की रचना उत्सर्ग-अपवाद के रूप में हुई है । अर्थात् पहले किसी सामान्य विधि को प्रस्तुत किया जाता है, फिर उसमें अपवाद के रूप में विशेष विधियों