________________
कातन्त्रव्याकरणम्
१५४
क्रियते, तदा नाग्रे-इत्यादयः प्रत्ययोत्पत्तिनिमित्तमिति नास्त्युपपदसञ्ज्ञा, तत्र नोपपदसमासप्राप्तिरिति अप्राप्ते विभाषापक्षेऽभिधानाश्रयणमित्यर्थः ।
यद्येवम् – “अलंखल्वोः प्रतिषेधयोः क्त्वा वा' (४।६।१) इत्यत्र षष्ठी व्याख्यायते। अलंखल्वोः सम्बन्धाद् धातोरिति "कालसमयवेलाशक्त्यर्थेषु च ' (४।५।१०७ ) इत्यत्र षष्ठी निर्दिश्यते, किमनेन ? सत्यम्, प्रतिपत्तिरियं गरीयसीति । अन्य आह - अस्मादेव सूत्रान्नञा निर्दिष्टमिति विज्ञायते, तेनाग्रे - आदिषु णमादिसमासो न भवतीति ॥९४४।
[वि० प० ]
नाव्यये० । इहानन्तरः समास एव निषिध्यते न प्राग्भाव इति न देश्यम्, नञ्ग्रहणात्। अन्यथा ‘अव्ययेनामा' इति कुर्यात् । पूर्वेण समासे सिद्धे पुनर्वचनं नियमार्थम्, अमैवाव्ययेन समासो नान्येन । न चाव्ययेनैवामिति विपरीतनियमः सम्भाव्यते, कृत्स्वनव्ययस्यामोऽसम्भवेन व्यावृत्तेरभावादित्याह - प्राग्भावसमासौ न भवत इति । भोक्तुं काल इति । "कालसमयवेलाशक्त्यर्थेषु च ' (४।५।१०७) इति तुम् । निमूलकाषमिति । "निमूलसमूलयोः कषः " (४।६।१६) इति णम् ||१४४|
[समीक्षा]
'निमूलकाषं कषति, समूलकाषं कषति' इत्यादि प्रयोगों के सिद्ध्यर्थ समासविधान अपेक्षित है तथा 'भोक्तुं कालः, अलं कृत्वा' इत्यादि में समासनिषेध । इसकी व्यवस्था दोनों ही व्याकरणों में की गई है, परन्तु अन्तर यह है कि कातन्त्रकार ने उपपदसंज्ञक स्याद्यन्तपद का अमन्तवर्जित अव्ययकृदन्त के साथ समास-निषेध करके उक्त कार्य सम्पन्न किए हैं, जब कि पाणिनि ने उपपद का अमन्त अव्यय कृदन्त के साथ समासविधान करके ये कार्य स्वीकार किए हैं । पाणिनि का सूत्र है - "अमैवाव्ययेन” (अ० २२२० ) | यह निषेध-विधान अपने अपने व्याकरण की प्रक्रिया के अनुसार है । अत: उभयत्र प्राय: समानता है ।
[विशेष वचन ]
१. न च विपरीतनियमः अव्ययेनैवामेति, व्यावृत्तेरभावात् (दु० टी० ) ।
२. अप्राप्ते विभाषापक्षेऽभिधानाश्रयणमित्यर्थ (दु० टी०) ।
३. प्रतिपत्तिरियं गरीयसीति ( दु० टी० ) ।
४. पूर्वेण समासे सिद्धे पुनर्वचनं नियमार्थम् (वि० प० ) | [रूपसिद्धि]
१. कृत्वा अलम्, अलं कृत्वा । यहाँ प्रकृत सूत्र द्वारा अव्यय - कृदन्त पद 'कृत्वा' का