________________
चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः १५५ 'अलम्' उपपद के साथ समास नहीं होता है, जिसके फलस्वरूप प्राग्भाव तथा यप् आदेश प्रवृत्त नहीं हुआ है। २. भोक्तुं कालः, कालो भोक्तुम् । समस्त प्रक्रिया पूर्ववत् समझनी चाहिए ।।९४४।
९४५. तृतीयादीनां वा [४।२।६] [सूत्रार्थ]
तृतीयादि उपपदों का अमन्त अव्ययकृदन्त पद के साथ विकल्प से समास तथा प्राग्भाव प्रवृत्त होता है ।।९४५।
[दु० वृ०] ___"तृतीयायामुपदंशेः" (४।६।३१) इत्यारभ्य यान्युपपदानि तानि तृतीयादीनि, तेषाममन्तेनापि प्राग्भावे समासो भवति वा । मूलकेनोपदंशं भुङ्क्ते, मूलकोपदंशं भुङ्क्ते। भ्रष्ट्रादपकर्षम् , भ्राष्ट्रापकर्ष धाना भक्षयति । तृतीयादीनामिति किम् ? समों भोक्तुम् ।।९४५।
[वि० ५०]
तृतीया० । अमन्तेनापीति । तत्र प्रकरणे णमो विधानाद् अनमेति प्रतिषेधो नानुवर्तते इति भावः । प्राग्भावे समास इति । वाशब्दोऽत्र भित्रक्रमे समासो वेति । अनन्तरः समासो विकल्प्यते, व्यवहितस्तु प्राग्भावो नित्य इत्यर्थ: । मूलकेनेत्यादि । "तृतीयायामुपदंशेः" (४।६।३१) इति णम्। भ्राष्ट्रादपकर्षमिति । “अपादाने परीप्सायाम्' (४।६।३५) इति णम् । सगों भोक्तुमिति । "कालसमयवेलाशक्तयर्थेषु च" (४।५।१०७) इति तुम् ॥९४५।
[क० च०]
तृतीया० । तृतीयादीनामिति किमिति। वेति कृतेऽमन्तवर्जितेनाव्ययेनान्तरङ्गत्वात् समासविकल्प: स्यादिति हेमः। इदं न चारु, स्वोदाहरणसिद्धिपूर्वकं हि प्रत्युदाहरणम्, तस्मान्मा वेति क्रियताम् इत्येव व्यावृत्तेरर्थः इति सागरः। मा मकारवणेनाव्ययेनेत्यर्थः। तदा तुम्प्रयोगेऽपि पूर्वेण पूर्वभावनिषेधेऽनेन प्राक् समासविकल्प: स्यात् ।।९४५।
[समीक्षा]
'मूलकोपदंशं भुङ्क्ते, मूलकेनोपदंशं भुङ्क्ते । भ्राष्ट्रापकर्ष धाना भक्षयति, भ्राष्ट्रादपकर्षम्' इत्यादि शब्दरूपों में वैकल्पिक समास दोनों ही व्याकरणों के अनुसार प्रवृत्त होता है । पाणिनि का सूत्र है - "तृतीयाप्रभृतीन्यन्यतरस्याम्' (अ० २।२।२१) । अतः उभयत्र समानता ही है ।
[रूपसिद्धि]
१. मूलकोपदंशं भुङ्क्ते, मूलकेनोपदंशम्। प्रकृत सूत्र द्वारा यहाँ ‘मूलकेन' इस तृतीयान्त उपपद के साथ अमन्त 'उपदंशम्' पद का समास तथा उपपद का प्राग्भाव । समास की वैकल्पिक प्रवृत्ति के कारण दो रूप दिए गए हैं ।