________________
१५३
चतुर्थे कृत्प्रत्ययाध्यागे द्वितीयो धातुपादः
१५३ [रूपसिद्धिः]
१. गोदः । गो + दा + क + सि । गां ददाति । 'गाम्' के उपपद में रहने पर 'डु दाञ् दाने' (२।८४) धातु से “आतोऽनुपसर्गात् कः' (४।३।४) सूत्र द्वारा 'क' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, “आलोपोऽसार्वधातुके' (३।४।२७) से धातुघटित आकार का लोप, प्रकृत सूत्र से समास, “तत्स्था लोप्या विभक्तयः" (२।५।२) से 'अम्' द्वितीया विभक्ति का लोप, लिङ्गसञ्ज्ञा तथा विभक्तिकार्य ।
२. जलजम् । जल + जन् + ड + सि । जले जातम् । ‘जले' के उपपद में रहने पर ‘जनी प्रादुर्भावे' (३।९४) धातु से “सप्तमीपञ्चम्यन्ते जनेर्ड:' (४।३।९१) सूत्र द्वारा 'ड' प्रत्यय, ‘ड्' अनुबन्ध का प्रयोगाभाव तथा अन्य कार्य प्राय: पूर्ववत् ।
३. क्रोधजम् । क्रोध + जन् + ड + सि । क्रोधाज्जातम् । 'क्रोधात्' के उपपद में रहने पर 'जन्' धातु से 'ड' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।९४३।
९४४. नाव्ययेनानमा [४।२।५] [सूत्रार्थ]
उपपदसंज्ञक नाम पद का अमन्तवर्जित अव्ययकृदन्त के साथ समास तथा प्राग्भाव नहीं होता है ।।९४४।
[दु० वृ०]
तस्य नामोपपदस्याव्ययकृदन्तेनामन्तवर्जितेन प्राग्भावसमासौ न भवतः । कृत्वा अलम् , अलं कृत्वा । भोक्तुं कालः, कालो भोक्तुम् । तस्येति किम् ? प्रकृत्य। अनमेति किम् ? निमूलकाषं कषति ।।९४४।
[दु० टी०]
नाव्य० । अव्ययश्चासौ कृच्चेति, स एवान्तो यस्य समुदायस्येति भावः । अव्ययकृदन्तेन युक्तस्योपपदस्य प्राग्भावो न भवति, अर्थाद् धातोरिति । अव्ययकृदन्तेन समासो न भवतीत्यर्थः । अमन्तेन तु प्राग्भाव: समासश्च भवत्येव व्यवहितस्यापि प्राग्भावस्य प्रतिषेधो नग्रहणाद् अन्यथा 'अव्ययेनामा' इति विदध्यात् । "तस्य तेन समासः" (४।२।४) इत्यनेनैव सिद्धत्वानियमार्थ भविष्यति अव्ययेनामैव समास इति। न च विपरीतनियमः - अव्ययेनैवामेति व्यावृत्तेरभावाद् दुःखशयमिति "शीङोऽधिकरणे च" (४।३।१८) इत्यच्प्रत्ययः, सि: "अकारादसम्बुद्धौ मुश्च" (२।२।७) इति। अनव्ययेनामा समासो निवर्त्यते । तदसत् , यावदेव विभक्तिलोप उपपद्यते तावदेव "तस्य तेन समासः" (४।२।४) अन्तरङ्गत्वादर्थवद्ग्रहणेनानर्थक्यस्येति वचनाच्च। तथा 'कृत्वालं मां विजेतुं जगदपि च शिशौ' इति । कथन्तर्हि "विभाषाग्रेप्रथमपूर्वेषु" (४।६।६) - अग्रेभोजनम् , प्रथमेभोजनमिति ? सत्यम् । 'अभिधानलक्षणा हि कृत्तद्धितसमासाः' इति नास्ति समासः। यदि तु आभीक्ष्ण्ये एवार्थे णम् विधीयते, प्राप्ते विभाषैवेति पक्षे निवृत्तिश्च