________________
१५२
कातन्त्रव्याकरणम्
एव श्रूयन्ते इति धातुप्रकरणत्वात् कुतो लिङ्गाद् विधिः । यच्च युष्मदीत्युक्तं तदुपपदसंज्ञाप्रत्याख्यानेनैव निरस्तावकाशं न दोषमावहतीति । अथ "वाऽ सरूपोऽस्त्रियाम्" (४।२।८) इत्यस्य विद्यमानत्वादुपसर्गः सिच् सविषये न स्यादिति चेन्नैवम्, वाऽसरूपविधौ कृत्सम्बन्धः करिष्यते, तत्प्रकरणत्वाद् इत्येतदेवाह - धातोरित्ययमपीति ॥ ९४३। [क० च०]
तस्य० । तेन समास इत्युक्तेऽर्थादुपपदस्य भविष्यति, किं तस्येत्यनेन चेत् ? सुखार्थम् । यद् वा उभयमपि सुखार्थम्, समास इत्युक्तेऽन्तरङ्गत्वादुपपदस्येति गम्यते, उपपदलाभे च कृदन्तधातुरुपस्थित एव । तथा हीति । साधने दृष्टान्तोऽयम् । यथा प्राद उपसर्गा इति धातोः प्रागेव सिद्धाः । उप समीपे धातोः समीपे सृज्यते इत्यन्वर्थबलाद् धातोः प्रागेव सिद्धाः इत्यर्थः । अथ धातोः प्रागेव सिद्धत्वे कुतो निश्चयः कृतः, अन्यस्मात् प्राक् कथं न स्युरिति क्रियाद्योतका इति व्यस्तेनान्वयः । तथेति । यथा सूत्राभावात् प्रादीनामुपसर्गत्वाद् धातोः प्राङ् निपातः, तथा सूत्राभावाद् ऊर्यादीनामपीति भावः । पञ्जिका – कर्तृकर्मणोरिति । कृतीति विषयसप्तमीस्वीकारादित्यर्थः । ननु भविष्यत्कृदपेक्षया षष्ठीसमासेन किं द्वितीयासमास एवास्ताम् विशेषाभावात् ? सत्यम् । असमासे दोषः । यथा कटस्य कारक इति । अन्यथा प्रथमं द्वितीयायां सत्यां प्रवृत्तस्य निवृत्तेरभावात् कटं कारक इत्येव स्यात् । तस्मात् कर्तृकर्मणोरित्यादिसूत्रस्य वैयर्थ्यात् कृतीति विषयसप्तमी परिकल्प्यते ॥९४३।
[समीक्षा]
‘कुम्भकारः, गोदः, जलजम्' इत्यादि शब्दों के सिद्ध्यर्थ उपपदसंज्ञक 'कुम्भम्, गाम्, जले' इत्यादि शब्दों का 'कार-द-ज' इत्यादि कृत्प्रत्ययान्त धातुओं का समासविधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है “उपपदमतिङ्” (अ० २।२।१९ ) । अत: उभयत्र समानता ही है ।
[विशेष वचन ]
,
-
१. प्रादयः क्रियाद्योतका : उपसर्गा: (दु० वृ० ) |
२. नाम्नां युक्तार्थत्वात् समासोऽपि सिद्ध एव (दु० वृ०) ।
३. वर्णस्थित्या यत्र विग्रहवाक्यं नास्ति स नित्यसमास: ( दु० टी० ) । ४. द्विविधो भावः बाह्य आभ्यन्तरश्च (दु० टी० ) ।
५.
अर्थाद् धातोरेव भविष्यतीति यत्तद्ग्रहणं तन्मन्दमतिबोधनार्थम् (दु० टी० ) । ६. अभिधानमिति । कृष्णसर्पादिवन्नित्यसमास एव भविष्यतीति भाव: (वि० प० ) ।
७. द्विविधो हि शब्दः नित्यः कार्यश्चेति (वि० प० ) ।
-
-
८. किं तस्येत्यनेन चेत् सुखार्थम् । यद् वा उभयमपि सुखार्थम् (क० च०)। ९. उप समीपे धातोः समीपे सृज्यते इत्यन्वर्थबलाद् धातोः प्रागेव सिद्धा इत्यर्थः (क० च० ) |