SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः १५१ गमेः प्रकृतित्वादुपपदत्वं नास्तीति "वुण्तृचौ' (४।२।४७) इत्यनेन कर्तरि वुण प्रतिपत्तव्यः। "कर्तृकर्मणोः कृति'' (२।४।४१) इत्यत्र कृद्गुणीभूतक्रियापेक्षमेव कर्मकर्तृत्वम्। एवं कारकस्य गतिः, कारकस्य व्रज्योति गत्यादिशब्दा हि सवृत्तम निवृत्तसाधनव्यापारमर्थमाचक्षाणाः कथं क्रियावचनाः, यत्र "स्त्रियां क्तिः" (४।५।७२) भावे व्रज्यजोः क्यप् । द्विविधो भाव:- बाह्यः आभ्यन्तरश्च । आभ्यन्तर: साध्यताक्रमधर्मरूपतायुक्तः, बाह्यस्तु सिध्यतामेव कृतः प्रकाशयति, तच्च द्रव्यकल्पनैवेत्याह - कृदभिहितो भावो द्रव्यवदिति । तस्य ग्रहणं किमर्थम् अनन्तरमुपपदं षष्ठ्यन्ततया सम्पत्स्यते । अथ तेनोपपदेनेत्यपि सम्भाव्येत, का क्षतिः । अर्थाद् धातोरेव भविष्यतीति यत् तद्ग्रहणं तन्मन्दमतिबोधनार्थम् ।।९४३। [वि० प०] तस्य० । गोद इति । गां ददातीति "आतोऽनुपसर्गात् कः" (४।३।४) इह भविष्यत्कृदपेक्षया "कर्तृकर्मणोः कृति नित्यम्' (२।४।४१) इति वचनाद् गोशब्दात् कर्मणि विहितायाः षष्ठ्याः समास इति । नित्यसमासश्चायमिति वाक्यं नास्ति । गां ददातीति वाक्यान्तरेणार्थ: कथ्यते । तथा जले जातं क्रोधाज्जातमिति विगृह्य "सप्तमीपञ्चम्यन्ते जनेर्डः" (४।३।९१) इति डप्रत्ययः । यथा हीत्यादि । एतेन उपसर्गाः प्रादय: क्रियायोगे ते च प्राग् धातोरिति च । यथोपसर्गान् प्रति लक्षणं नोक्तम् । एवमित्युक्तम् - निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः । द्योतकत्वात् क्रियायोगे लोकादवगता इमे ।। तथा ऊर्यादिच्विडाचोऽपि । प्राग्भावं प्रति सूत्रं न वक्तव्यमिति दर्शितम् । इहापि लोकत एव सिद्धत्वादित्यभिप्रायः । नाम्नामित्यादि । कुम्भस्य कारः कुम्भकार इति षष्ठीसमासेनापि सिद्धो भवतीति भावः । यद्येवं वाक्यमपि स्यात् । यथा राज्ञः पुरुष इत्याह-यथेति । अभिधानमिति । कृष्णसर्पादिवन्नित्यसमासः एव भविष्यतीति भाव: । तथोपपदसज्ञापि न कर्तव्या । तन्निबन्धन: पूर्वनिपातोऽप्यनभिधेय इति । द्विविधो हि शब्दः - नित्यः कार्यश्चेति । तत्र कार्यपक्षे पूर्वनिपातोऽभिधीयते, न तु नित्यपक्षे स्वभावसिद्धत्वात्। कार्यपक्षेऽपि संसारस्येवानादित्वात् प्रवाहनित्यता । यदाह भर्तृहरिः नित्यत्वे कृतकत्वे वा येषामादिर्न विद्यते। प्राणिनामिव सा चैषा व्यवस्था नित्यतोच्यते।। (वा० प० १४२८) इति । न च कारकुम्भ इति प्रवाही शब्दो लोके प्रयुज्यते इति । परावपि योगावनर्थकाविति, तथा यथाभिधानं समासस्याभिहितत्वाद् ‘रामो जामदग्न्यः' इत्यादिवदव्ययकृदन्तेनामन्तवर्जितेन समासो न भविष्यति, तृतीयादीनां च पक्षे वाक्यमपि भविष्यतीत्याह-एते त्रयोऽपि योगा वक्ष्यामाणाभ्यां सह प्रपञ्चा इति । किञ्च धात्वधिकारोऽपीह न प्रयोजयति । नन्वस्य प्रयोजनत्रयमुक्तं तत् कथं स्यात्? उच्यते, न तावल्लिङ्गादयो वक्ष्यमाणेषु हि प्रायेण धातुप्रकृतय
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy